पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१

पुटमेतत् सुपुष्टितम्

( ४ )

भाषा

 संसार को उत्पन्न करने वाले गरुडवाहन विष्णु भगवान् का वक्षःस्थल अनेक लोको की रक्षा करें। जिसपर लक्ष्मी के शरीर की सोने के समान कान्ति की छाया पड़ने से, जो सौभाग्य रूपी सोना कसने की कसौटी के समान अवगत हो रहा है ।

एकस्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम् ।
यस्याः प्रियार्द्धस्थितिमुद्वहन्त्या:, सा पातु वः पर्वतराजपुत्री ॥।४॥

अन्वयः

 प्रियार्द्धस्थितिम् उद्वहन्त्याः यस्याः एकः तुङ्गतरः स्तनः परस्य वार्तां प्रष्टुम् इव मुखाग्रम् अगात्, सा पर्वतराजपुत्री व: पातु ।

व्याख्या

 प्रियस्य शिवस्यार्द्धस्थितिमर्द्धे स्वदक्षिणाङ्गे स्थितिमुद्वहन्त्या धारयन्त्या यस्याः पार्वत्या एकस्तुङ्गतरोऽत्युच्चस्तनः कुचः परस्य द्वितीयार्द्ध-देहरूपप्रिय-सम्बन्धिनोऽर्द्धदेहस्थस्तनस्य वार्ता जीवनवृत्तान्त स्नेहात्प्रष्टुमिव पार्वत्या मुखाग्रमाननसामीप्यमगात्प्राप्त:, सा प्रसिद्धा पर्वतराजस्य हिमाचलस्य पुत्री कन्या पार्वती वो युष्मान् पातु रक्षतु। वृतान्तप्रश्नस्य परस्तनकर्तृक-पार्वतीमुखाग्रकर्मकगमनसम्बन्धिफलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा । अत्राऽर्द्धनारीश्वरो व्यज्यते । उद्वहन्त्या इति पदसामर्थ्यात्पर्वतराजपुत्रीत्यत्र परिकरालङ्कारात्पार्वत्या उद्वहनक्षमत्वं गम्यते । तन्त्रशास्त्रदृष्ट्या पार्वत्या आद्यशक्तित्वेन ग्रहणं कविसम्मतं प्रतिभाति ।

भाषा

 अपने प्रिय के आधे अङ्ग को अपने दक्षिण अङ्ग में धारण करने वाली हिमालय पर्वत की लडकी पार्वती तुम लोगो का रक्षण करे । जिसका ऊपर


अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मिन्नर्धं पुमांस इति दर्शयितुं भवत्या ।

स्त्रिपुंसलक्षणमिदं वपुरादृत यत्तेनाऽसि देवि विदिता त्रिजगच्छरीरा ।।

श्री नीलकण्ठदीक्षितविरचिते ‘आनन्द सागरस्तवे' श्लो० १०० ।

"कान्तार्द्धविग्रहे"त्यस्य व्याख्याऽपि भास्करराय-प्रणीते ललितासहस्रनाम-सौभाग्य-भास्कराख्यभाष्ये द्रष्टव्या ।