पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३११

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९८ )

अन्वय:

 जयकेशीपार्थिवः एनम् पत्य प्रार्थितात् अधिकं धनम् अर्पयन् (सन्) कोङ्कणप्रणयिनीमुखेन्दुषु हासचन्द्रिकां निश्चलाम् अकृत ।

व्यख्या

 जयकेशी नाम कोङ्कणदेशाधिपो गुर्जरदेशमधिपस्य जयसहसिद्धराजस्य मातामह एनं विक्रमाङ्कदेवमेत्य प्राप्य प्रार्थितादभिकाङक्षितदधिकं महत्तरं धनं वित्तमर्पयन्वितरन् सन् कोङ्कणदेशस्य प्रणयिन्यो ललनास्तासां मुखेन्दवो वदन चन्द्रास्तेषु हास एव चन्द्रिका कौमुदी ‘चन्द्रिका कौमुदी ज्योत्स्ना’ इत्यमरः । तां हास्यकौमुदीं निश्चलां स्थिरामकृत कृतवान् । धनप्रदानेनाऽऽक्रमणाभावात् कोङ्कणदेशोया नार्यश्चिराय सुप्रसन्नाः कृता इति भावः । अत्र रूपकालङ्कारः ।

भाषा

 (गुर्जर देश के राजा जयसिंह सिद्धराज के मातामह), कोकण देश के राजा जयकेशी ने विक्रमाङ्कदेव के सन्मुख उपस्थित होकर मागे हुए से अधिक धन देकर, कोकण देश की नारियो के मुख रूपी चन्द्रमा की हास्य रूपी चादनी को अचल कर दिया । अर्थात् वहाँ की स्त्रियाँ युद्ध न होने से चिरकाल के लिये प्रसन्न हो गई।

आलुपेन्द्रमवदातविक्रमस्त्यक्तचापलमसाववर्धयत् ।
दीपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥२६॥

अन्वय:

 अवदातविक्रमः असौ त्यक्तचापलम् आलुपेन्द्रम् अवर्धयत । अविन याग्रदूतिका अप्रणतिः एव तादृशाम् कोपं दीपयति ।

व्यख्या

  अवदातो धवलो लोकोत्तरत्वेन विख्यात इत्यर्थः । विक्रमः पराक्रमो यस्य स असाधारणपराक्रमोऽसौ विक्रमाङ्कदेवस्त्ययतं दूरीकृतं नापलमौद्धत्यं येन तमविन- पासपूयतं विनीतमित्यर्थः । आलुपस्य देशविशेषस्येन्द्रं राजानमालुपदेशाधिपति - " मवर्धयत्सम्यक् परिपालनेन समृद्धिमन्तमकरोत् । अविनयस्योद्धत्यस्याऽप्रदूतिका परिचापिकाऽप्रणतिरेवाऽनप्तिरेव तादृशमवदातविक्रमाणां विक्रमाङ्कदेवसदृशानां कोपं क्रोधं दीपयति समुज्ज्वलयति । अत्राऽर्थान्तरन्यासालङ्कारः ।