पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३०१ )

अन्वयः

 ग्तः नयमार्गकोविदः द्राविडेन्द्रपुरुषः प्रतिक्रियाशून्यपौरुषविशेषशा सज्जधनुषः तस्य सभाम् आजगाम ।

व्याख्या

 गततो राजकुमारस्य द्रविडराजभूमिमुखागमनानन्तर नयस्य राजनीतेम पन्थास्तस्य कोविदो ज्ञाता नीतिज्ञ इत्यर्थ । द्राविडेन्द्रस्य द्रविडदेशनृप चोलदेशाधिपवीरराजेन्द्रस्य पुरुषो दूतस्सग्देशहारक इत्यर्थः । प्रतिक्रिया प्रतीक रस्तया शून्य रहित पौरूष पराक्रमस्तस्य विशेषोऽतिशयस्तेन शालते शोभः तस्याऽजेयपराक्रमातिशयजुष सज्ज शरप्रक्षेपणाय पूर्णतयोद्युक्त धनु कोवण् यस्य स तस्य सज्जधनुषस्तस्य विक्रमाङ्कदेवस्य सभां ससदमाजगाम विवेश ।

भाषा

  बाद में नीतिशास्त्रपारङ्गत द्रविडदाश के राजा का दूत अजेय पौरुषविशेष से शोभित तथा युद्ध के लिये सदैव धनुष को तयार रखने वाले विक्रमाङ्कदेव की सभा में आया ।


मौलिचुम्बितवसुन्धरातलः कुन्तलेन्द्रतनयं प्रणम्य सः ।
व्याजहार दशनांशुपल्लवन्यस्तकोमलपदां सरस्वतीम् ॥३०॥


अन्वयः

 मौलिचुम्बितवसुन्धरातलः सः कुन्तलेन्द्रतनयं प्रणम्य दशनांशुपल्ल- घन्यस्तकोमलपदा सरस्वतीं व्याजहार ।


व्याख्या

 मौलिना शिरसा चुम्बित सामालिङ्गित वमुधरातल पृथिवीतल येन स दूत

कुन्तलेन्गृद्रस्याडडहवमल्लदेवस्य तनयं पुत्र विक्रमाङ्कदेवं प्रणम्य नमस्कृत्य दशनानां दन्तानामेशव किरण एव पल्लवा किसलयानि 'पल्लवोऽस्त्री किसलयम् इत्यमर । तेषु न्यस्ते निक्षिप्ते कोमले पदे चरणौ यया सा तां सरस्वती वाग्देवतां पक्षे दशनादाय पल्लवा इयं कान्तिमत्वात्तैरसह व्यस्तानि

प्रतिपादितानि कोमलानि मधुराणि पदानि शब्दा यस्यां तां सरस्वतीं वाचं व्याजहार उवाच । मधुरपदविन्यासं यथास्यातथोवाचेति भावः ।