पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३०२ )

भाषा

 उस दूत ने पृथ्वी पर मस्तक टेक के कुन्तलदेश के राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव को प्रणाम कर दाँतो के किरण रूप कोमल पत्तो पर अपने कोमल चरणो को रखने वाली सरस्वती को प्रकट किया या स्मित पूर्वक कमल पत्तो के सदृश कोमल अर्थात् मधुर वाक्यो को कहा ।


कश्चुलुक्यनृपवंशमण्डन त्वद्गुणान्गणयितुं प्रगल्भते ।
धाम पङ्करुहिणीविलासिनः कस्य सङ्कलयितुं विदग्धता ॥३१॥

अन्वय:

 हे चुलुक्यनृपबंशमण्डन क त्वद्गुणान् गणयितुं प्रगल्भते । पङ्क- रुहिणीविलासिनः धाम सङ्कलयितुं कस्य प्रगल्भता ।


व्याख्या

 चुलुक्यनृपवशस्य चालुक्यराजकुलस्य मण्डन भूषण तत्सम्बुद्धो, हे चुलुक्यनूप- वशमण्डन ! हे विक्रमाङ्कदेव ! क पुरुषस्तव गुणास्त्वद्गुणरस्तान् दयादा क्षिण्यादीन् गणयितु सख्यातु प्रगल्भते क्षमते । न कोऽपीत्यर्थ । पङ्करूहिणीना कमलिनीना विलासी सुखदायकस्सूर्यंस्तस्य धाम तेज किरणानित्यर्थ । सकलयितुं गणयितु कस्य जनस्य विदग्धता। पाण्डित्य सामर्थ्यमित्यर्थं । न कस्यापीतिभाव । प्रतिवस्तूपमाऽलङ्कार । “प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययो । एकोऽपि घर्म सामान्यो यत्र निर्दिश्यते पृथक् " इति लक्षणात् ।

भाषा

 हे चालुक्यराजकुल के भूषण भी विक्रमाङ्कदेव ! तुम्हारे दयादाक्षिण्यादि

गुण की गणना करने में कौन समर्थ हो सकता है अर्थात् कोई भी समर्थ नही

हो सकता । कमलिनी को सुख देने वाले सूर्य की किरणों को गिनने की पण्डिताई या सामर्थ्य किसमें है अर्थात् किसी में नही है ।


वर्णयामि विमलत्वमम्भसः किं त्वदीयकरालवर्तिनः।
एति यत्प्रभवमैन्दवीं द्युतिं विश्वशुक्तिपुटमौक्तिकं यशः ॥३२