पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३०३ )

अन्वयः

 त्वदीयकरवालवर्तिनः अम्भसः विमलत्वं किं वर्णयामि । य विश्वशुक्तिपुटमौक्तिकं यशः ऐन्दवीं द्युतिम् एति ।

व्याख्या

 त्वदीये त्वत्सम्बन्धिनि करवाले खङ्गे वर्तत इति त्वदीयकरवालवर्ती त भवदीयखड्गे स्फुटतया प्रतीयमानस्याऽम्भसो जलस्य विमलत्वं विशद धावल्यमित्यर्थः । किं वर्णयामि केन प्रकारेण निरूपयामि । यस्मादम्भा प्रभव उत्पतिर्यस्य तत् यत्प्रभवं यदुत्पनं, विश्वं सम्पूर्णब्रह्माण्डमेव शुक्तिपुटं तक मौक्तिकमैव यशः कीर्तिरिन्दोरियमित्यैन्दवी तामिन्दुसम्बन्धिनीं द्युतिं कान्तिमेति प्राप्नोति । त्वत्करवालप्रभावेण विश्वस्मिंस्ते चन्द्रवच्छुभ्रं यशः प्रसृतमिति भावः । शुभ्रत्वाद्यशसि मौक्तिकभेदारोपद्रुपकम् । अस्मिन्विश्वस्मिन् शुक्ति

पुटत्वारोपः कारणमतः परम्परितरूपकम् । । 'नियतारोपणोपायस्स्यादारोपः परस्य यः । तत्परम्परितमिति लक्षणात् ।

भाषा

 आपकी तलवार के (धार के) पानी की स्वच्छता का क्या वर्णन करें। जिससे उत्पन्न विश्वरूपी सीप का मौक्तिक रूपी यश चन्द्रमा की कान्ति को प्राप्त करता है अर्थात् आपकी तलवार से उत्पन्न चन्द्रमा के समान शुभ्र यश सम्पूर्ण विश्व में फैल गया है ।


खङ्गवारि भवतः किमुच्यते लीलशैवलमिवारिकुन्तलैः
यत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः ॥३३॥

अन्वयः

 अरिकुन्तलैः लोलशैवलम् इव भवतः सङ्गवारि किम् उच्यते । यत्र त्वया निवेशितं राजहंसंनिवहोपमं यशः राजति ।

व्याख्या

{{bold| शत्रूणां कुन्तलः केशैः (हेतुभिः) लोलश्चञ्चलश्शैवालं लनीली तु शेवालं शैवलः' इत्यमरः । यस्मिंस्तल्लोलशैवलं प्रकम्पमान लमिव भवतस्तव विक्रमाङ्कदेवस्य खङ्गवारी कृपाणधारा