पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३०४ ।। जनैस्सर्यथैवऽवर्णनीयमेवेत्यर्थः। यक्ष कृपाणधाराजले त्वया भवता निवेशितं प्रतिष्ठापितं राजहंसानां मरालानां निवहस्समूह उपमोपमानं यस्य तन्मरालसमूह सदृशं शुभ्रं यशः कीर्ती राजति शोभते । उपमालङ्कारः। । शत्रुओ के केशो के लगे होने के कारण, चञ्चल सेवार से युक्त तलवार के पानी का कैसे वर्णन किया जाए। जहाँ तुम्हारे द्वारा स्थापित राजहस मे समूह के समान श्वेत यश शोभित होता है। अर्थात् तुमने शत्रुओं को काटकर अपना श्वेत यश स्थापित किया । त्वद्भुजप्रणयिचापनिस्वनः कैरसौ समरसीम्नि सह्यते । व्यक्तिमेति रिपुमन्दिरेषु यः क्रन्दितध्वनिभिरेणचक्षुषाम् ।३४।। अन्वयः असौ त्वद्भुजप्रणयिचापनिस्वनः समरसीम्नि कैः सह्यते । यः रिपु- मन्दिरेेषु एणचक्षुषां क्रन्दितध्वनिभिः व्यक्तिम् एति । व्याख्या असौ प्रसिद्धस्तव भुजो आहुः ‘भुजबाहू प्रवेष्टो दोः' इत्यमरः । त्वद्भुज स्तस्य प्रणयी दृढ़सम्बद्धो यश्चापो घनुस्तस्य निस्वनः शब्दः समरसीम्नि युद्धभूमौ कैर्जनैः सह्यते सोढुं शक्यते । यो निस्वनो रिपूणां शत्रूणां मन्दिरेषु गुहेष्वेणस्य मृगस्य गोकर्णपृषतेणर्श्यंरोहिताश्चमरो मृगाः इत्यमरः । चक्षुरिव लोचनमिव चक्षुर्यासां तास्तासां मृगलोचनानां क्रन्दितानि रुदितानि क्रन्दितं रुदितं भृष्टम् इत्यमरः। एव ध्वनयश्शब्दास्तैर्य्यक्तिं प्रकाशं प्रकटतामित्यर्थः । एति प्राप्नोति । समरे यवीयचापनिर्गतबाणैर्भृतान् भर्तृम् श्रुत्वा राजपत्न्यः स्वभवनेषु रुदन्तीति भावः । अत्र चापनिस्वनतत्प्रतिध्वन्योर्वाप्यधिकरण्येन वर्णनादसङ्गतिरलङ्कारः। भाषा तुम्हारी भुजा से घनिष्टता रचने वाले इस धनुष की टक्कर को युद्ध-भूमि में कौन सहन कर सकते है । जिसका साक्षात्कार शत्रुओं के घरो में मृग

नयनियो की रोने की ध्वनि से होता है । अर्थात् तुम्हारे घनुष वा टङ्कार होते ही शत्रु मरता है और उसके घर की नारियाँ रोने लगती है ।