पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३२

पुटमेतत् सुपुष्टितम्

( ५ )

उठा हुआ वामाङ्ग में का एक स्तन जाति के सौहार्द से मानो दक्षिणाङ्गस्थित (दबे हुए) दूसरे स्तन की जीवन संबन्धि दुःख सुख की घटना पूछने के लिए पार्वती के मुख के पास पहुँचा है ।

सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः ।
कुर्यान्नजस्रं यमुनाप्रवाह–सलीलराधा-स्मरणं मुरारेः ॥५॥

अन्वयः

 सोल्लासलक्ष्मीप्रतिबिम्बगर्भः नन्दकः मुरारेः यमुनाप्रवाहसलीलराधास्मरणम् अजस्रं कुर्वन् व: सान्द्रां मुदं यच्छतु ।

व्याख्या

 उल्लासेन सहिताया हर्षोत्फुल्लाया लक्ष्म्या: प्रतिबिम्बं प्रतिच्छाया गर्भेऽभ्यन्तरे यस्यैवम्भूतो नन्दको नन्दकनामा विष्णोः खड्गः 'शंखो लक्ष्मीपते: पाञ्चजन्यश्चक्रं सुदर्शनम् । कौमोदकी गदा खड्गो नन्दकः कौस्तुभमणिः' इत्यमरः । मुरारेः कृष्णस्य यमुनाप्रवाहे सलीलाया विहरन्त्या राधायाः स्मरणं स्मृतिमजस्रं सततं कुर्वन् मुरारिकर्तृकं यमुनाप्रवाहान्तर्गतविहरमाणराधाकर्मकस्मरणं निरन्तरं हेतुत्वेनोपादयन् कारयन्नित्यर्थः । अन्तर्भावितण्यर्थोऽयं कृ धातुः । सान्द्रां घनीभूतां मुदमानन्दं यो यष्मान् युष्मभ्यं वा यच्छतु ददातु । नन्दकस्य यमुनाप्रवाहेण लक्ष्म्याश्च राधया साम्यमिति श्री कृष्णस्य स्मृतिस्संगच्छते । प्रतिबिम्बितलक्ष्मीके नन्दके दृष्टे सति भगवतः सादृश्याद्यमुनाप्रवाहान्तर्गत‌-लीलासक्तराधिकाया: स्मरणात्स्मरणालङ्कारः । सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कार: ।

भाषा

 प्रसन्नचित्त लक्ष्मी की परछाही से युक्त नन्दक नाम का विष्णु का खड्ग तुम लोगों को अधिक आनन्द दें । जो यमुना नदी में लीला करने वाली राधिका का भगवान् को निरन्तर स्मरण कराने वाला है। अर्थात् जो विष्णु को काले रंग को खड्गरूपी यमुना नदी में प्रसन्न लक्ष्मीरूपी कृष्णावतार में अनुभूत राघिका का सतत स्मरण करा रहा है ।

पार्श्वस्थपृथ्वीधरराजकन्या-प्रकोपविस्फूर्जितकातरस्य ।
नमोऽस्तु ते मातरिति प्रणामाः शिवस्य सन्ध्याविषया जयन्ति ॥६॥