पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९४ )


व्याख्या

 भारतादिष्वपि महाभारतप्रभृतिंप्राचीनेतिहासग्रन्थेष्वपि भारतादिदेशेष्वपि वा त्वादृशं भवादृशं भाग्यस्य भागधेयस्य ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियति विधिः' इत्यमरः । भूमिमाश्रयं भाग्यवन्तं प्रतापिनं प्रभाववन्तं न शृणुमो नाऽऽकर्णयामः । यो रणेषु युद्धेषु दर्शनेन स्व-स्वरूपप्रकाशतेनैव विजयश्रियं जयलक्ष्मीमन्येषां राज्ञां सङ्गात्सम्बन्धाद्विमुखीं पराङमुखीं करोति । युद्धेषु तव दर्शनेनैन शत्रयो भयभीता भवन्ति तस्मात्तेषां राज्यश्रीरनुपमरुपलावण्ययुक्तं कामुकं ‘कामिनीव सौस्त्यक्त्वा त्वत्समीपे समायातीति भावः । समासोक्ति रलङ्कारः ।

भाषा

 महाभारत आदि प्राचीन ऐतिहासिक ग्रन्थो मे या भारत आदि देशों में तुम्हारे ऐसा भाग्यशाली प्रतापी कोई भी सुनने में नहीं आता। युद्ध में जिसके दर्शनमात्र से शत्रुओं की राजश्री शत्रुभूत राजाओं के पास रहना ही नही चाहती । अर्थात् युद्धो में तुम्हारे दर्शन मात्र से विपक्षी राजा भयभीत हो जाते है अत एव उनकी राजश्री, अति सुन्दर कामुक के दर्शन मात्र से, कामिनी के समान, उनको, छोड वर तुम्हारे पास चली आती है ।

किं किरीटमणयः क्षमाभुजां लोहकर्षकदृषत्सहोदराः ।
आनयन्ति यदुपान्तवर्त्मनि त्वत्कृपाणमतिवर्तिनम् (।४३।।

अन्वयः

क्षमाभुजां किरीटमणयः लोहकर्षकदृषत्सहोदराः किम् १ यत् . अति- दूरवर्तिनं त्वत्कृपाणम् उपान्तवर्त्मनि आनयन्ति ।

व्याख्या

क्षमां पृथ्वी भुञ्जन्ति स्वोपभोगे समानयन्ति ते क्षमाभुजो विपक्षभूमि पतयस्तेषा किरीटेषु मुकुटेषु मणयो रत्नानि ‘मण्डनं चाथ मुकुंट किरीटं पुंनपुं सकम्' इत्यमरः । लोहस्य लोहस्य कर्षिका वृषयश्चुम्बकशिलास्तासां सहोदरा स्तदृशाः किम् ? यद्यस्मात्कारणादतिदूरे वर्तत इत्यतिदूरवर्ती तं विप्रकृष्ट- देशस्थं त्वत्कृषाणं त्वत्सङ्गमुपान्तवर्त्मनि समीपदेशे आनयन्ति समाकर्षन्ति । अत्रोत्प्रेक्षालङ्कारः ।