पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९५ )

व्याख्या

 घनाना मेघाना गर्जितानि स्तनितानि ‘स्तनित गर्जित मेघनिर्घोषे रसितानि च' इत्यमरः । तेष्विवाऽन्येषा प्रतापिना पौरुषस्य पुरुषार्थस्य गुणेषु महत्वेष्व पि श्रुतिं कर्ण प्राप्तवत्सु गतेषु, अस्य चोलनृपतेमनिसान्मनसो चित्त तु चेतो हृदय स्वान्त हृन्मानस मन ' इत्यसर । मानससरसो वा राजहसवनितेव मरालीब तावकी त्वदीया स्तुति स्तव‘स्तव स्तोत्र स्तुस्तिनुंति' इत्यमरः । न नि सरति न पृथग्भवति । तन्मनस्येव निश्चला तिष्ठत इति भाव । घनगर्जित श्रुत्वा यया मराली मानससरोवरादन्यत्र न गच्छति तत्रैव तिष्ठति च तथैव बहूना राज्ञामपि पुरुषार्थकथा श्रुत्वा तव स्तुतिश्चोलदेशाधिपतेर्मनसो न पृथग्भ वतीत्यर्थं । अत्रोपमालङ्कार

भाषा

 मेघ की गरज के समान अय राजाओ के भी पुरुषार्थं के महत्व को सुन कर चोलदेश के राजा वीरराजन्द्र के मन से तुम्हारी स्तुति मानस सरोवर से राजहंसी के समान नही हटती है । अर्थात् जैस मेघ के शब्द सुनकर राजहंसी मानस सरोवर में ही रहती है और वहा से अन्यत्र नही हटती वैसे ही अन्य राजाओ के पौरुष के महत्व को सुनत पर भी तुम्हारी स्तुति उस चोल राजा के मन से नही हटती किन्तु उसके मन में विद्यमान है ।

कन्यकां कुलपिभूषणं गुणैरद्भुतैस्त्रिभुवनातिशायिनीम् ।
त्वत्करप्रणयिनी विधाय सः प्राप्तुमिच्छति समस्तनन्द्यताम् ॥४६॥

अन्वयः

 सः कुलविभूषणम् अद्भुतैः गुणैः निभुवनातिशायिनीं कन्यका त्वत्कर- प्रणयिनीं विधाय समस्तबन्द्यता प्राप्तुम् इच्छति ।

व्याख्या

 स वीरराजेन्द्रनामकश्चोलदेशराज कुलस्य यशस्य भूषणमलङ्कारभूतामद्भु तेराश्चर्यकरैर्गुणै शीललज्जादिभिस्त्रयाणा भुवनाना समाहारस्त्रिभुवन तमतिशेते लङ्घयतीति त्रिभुवनातिशायिनीं ता त्रिभुवनातिशायिनीं लोकत्रयेष्वनुपमां कन्यकां स्वात्मजां तव करस्य हस्तस्य प्रणयिनी राङ्गिनी तां विधाय कृत्वा त्वां विवाह्येत्यर्थ । समस्तैस्सकलैलोंकैर्वन्द्यता नमस्यता प्राप्तु लब्धुमिच्छस्य भिवाञ्छति