पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९६)

भाषा

 वह वीरराजेन्द्र नामक चोल देश का राजा कुल की अलङार स्व शील लज्जा आदि अद्भुत गुणो से तीन लोको में अनुपम, अपनी क तुमसे पाणिग्रहण अर्थात् विवाह कर सब लोगो में वन्दनीय होना चहता

तेन तस्य वचनेन चारुणा प्राप ‘कुन्तलपतिः प्रसन्नताम् ।
तीव्ररोषविषवेगशान्तये भेषजं विनय एव तादृशाम् ॥४

अन्वयः

 कुन्तलपतिः तस्य चारुणा तेन वचनेन प्रसन्नता प्राप । तादृ तीव्ररोषविषवेगशान्तये विनयः एव भेषजम् (अस्ति) ।

व्याख्या

 कुन्तलपति कुन्तलदेशाधिपतविक्रमाङ्कदेवस्तस्य द्राविडेन्द्रदूतस्य चारुणा । मनोहारिणा तेन पूर्वोक्तेन वचनेन वाक्प्रपञ्चेन प्रसन्नता प्रसाद 'प्रसादस्तु प्रसन्नता' इत्यमर । प्रापोपजगाम । तादृशा विक्रमाङ्कदेवसदृशाना विजि गीषूणा तीव्रस्तीक्ष्णो रोष कोघ एव विष गरल तस्य वेगो रयस्तस्य शान्तये शमनाय विनय एव नम्रत्वमेव भेषजमौषधं ‘भेषजौषधभेषज्यान्यगदो जायु- रित्यपि' इत्यमर । अस्ति । विजिगीषूणा वीराणां पुरतो विनयदर्शनं तेषां क्रोधनिबारणपूर्वकप्रसन्नतासम्पादनार्थमेक एवोपाय इति भाव । रोषे विषता दात्म्याद्रूपकम

भाषा

 कुन्तलदेशाधिपति विक्रमाङ्कदेव, द्रविडदेश के राजा थे दूत की पूर्वोक्त मीठी बातो से प्रसन्न हो गया । एसे महापुरुष के तीव्र शोध रूपी विष के वेग को रोकने के लिए केवल विनय ही औषध है ।