( २९७)
कीदृशी शशिमुखी भवेदिति स्पृश्यते स्म हृदये स चिन्तया ।
कामुकेषु मिषमात्रमीक्षते नित्यकुण्डलितकार्मुकः स्मरः ॥४८॥
अन्वयः
सः शशिमुखी कीद्दशी भवेत् इति चिन्तया हृदये स्पृश्यते स्म नित्यकुण्डलितकार्मुकः स्मरः कामुकेषु मिषमात्रम् ईक्षते ।
व्याख्या
स विक्रमाङ्कदेव शशिमुखी चन्द्रमुखी द्रविडदेशराजकुमारो कीदृशी किंस्वरूपा भवेदिति चिन्तया विचारेण हृदये मनसि चितन्तु चेतो हृदय स्वान्त हृन्मानस मन' इत्यमर । स्पृश्यते स्म चिन्तितो बभूव । नित्य सदैव कुण्डलित समाकृष्ट कार्मुकं धनुर्येन स सततसजधनु स्मर' कामदेव कामुकेषु कामिषु कान्ताम्प्रत्यनुरागसम्भूतेष्वित्यर्थ । मिषमात्र व्याजमात्रमीक्षते पश्यती । चिन्तोत्पादनव्याजेनैव कामबाणव्यापार राफल इति भव । अत्राऽर्थान्तरन्यासोऽलङ्कार ।
भाषा
यह विक्रमाङ्कदेव, द्रविड देश के राजा को चन्द्रवदनी कन्या कैसी होगी इस विचार से चिन्तित हो उठा। कामियो के प्रति सदा धनुष सज्ज रखने वाला कामदेव, कामियो को पीडित करने मे कोई बहाना ही खोजता रहता है ।
अब्रवीच्च मनसः प्रसन्नतां दन्तकान्तिभिरुदीरयन्निव ।
ओष्ठपृष्ठलुठितस्मिताश्चलः कुन्तलीनयनपूर्ण चन्द्रमाः ॥४६॥
अन्वयः
ओष्ठपृष्ठलुठितस्मिताञ्चलःकुन्तलीनयनपूर्णचन्द्रमाः (सः) दन्तकान्तिभिः मनसः प्रसन्नताम् उदीरयम् इव अब्रवीत् च ।
व्याख्या
ओष्ठयो पृष्ठं तत्र लुठितो लुलित स्मितस्येषद्धासस्यऽचल प्रान्तभागो यस्य स ओष्ठपृष्ठलुठितस्मिता़ञ्चलो लज्जयेयद्भासयत कुन्तलीनां कुन्तलवेश कामिनीनां नयनानि नेत्राणि लोचन नयन नेत्रमोक्षणं चक्षुरक्षिणी' इत्यमरः ।