पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९९)

व्याख्या

 अथ विक्रमाङ्कदेवोक्त्मनन्तमपगतं दूरीभूतं साध्वसं भयं यस्य स विगत भीस्साघुसञ्जनस्स चोलहूतोऽभूतस्य सुखाया द्रवः प्रवाह उपमोपमानं यस्यास्तां पीयूषप्रवाहसदृशमिन्दुकरवच्चन्द्रकिरणवन्निर्मला विशद तामिति पूर्वोक्तप्रकारां वाचं वाणीं दर्शयन्तं प्रकटयन्तं बुबाणमित्यर्थः । एनं प्रसिद्धं विक्रमाङ्कं विक्रमाङ्कदेवं व्यतिजतपत् निवेदितवान् ।

भाषा

 विक्रमाङ्कदेव के बोलने के अनन्तर भय से रहित उस सज्जन चोलराजदूत ने अमृत के प्रवाह के ऐसी तथा चन्द्रमा के किरणो के ऐसी मीठी और निर्मल उपर्युक्त बातें बोलने वाले विक्रमाङ्कदेव से कहा ।

किं तवान्यदुचितं वदान्यता यत्समादिशति तत्त्वया कृतम् ।
प्रार्थितार्थपरिपन्थितामगात् कश्चुलुक्यकुलपार्थिवोऽर्थिनाम् ॥५५॥

अन्वयः

 तव अन्यत् उचितं किम् । वदान्यता यत् समादिशति तत् त्वया कृतम् । कः चुलुक्यकुलपार्थिवः अर्थिनां प्रार्थितार्थपरिपन्थिताम् अगात् ।

व्याख्या

 तव भवतो विक्रमाङ्कदेवस्याऽन्यदितरदुचितं योग्यं किं । अर्थात् भवता सर्वमुचितमेवाऽनुष्ठितम् । वदान्यतोदारता 'स्युर्वदान्यस्थूललक्ष्यदानशौंडा बहुप्रदे’ इत्यमरः । तावकीनेति भावः । यत्समादिशति यदाज्ञापयति तत्त्वया भवता कृतं विहितम् । सर्वथैव हृदयस्य विशालतैव भवता प्रदशर्तेति भावः। कश्चुलुक्यकुलस्य चालुक्पवंशस्य पार्थिवो नृपोऽर्थिनां याचकानां प्रार्थितोऽभिवा ञ्छितोऽर्थः प्रयोजन तस्य परिपन्थितां प्रतिकूलतामगात्मगतवान् न कोऽपीत्यर्थः । चालुक्यकुलोत्पन्नाना राज्ञां याचकमनोरथपूरणं स्वाभाविकमिति भावः । अत्रा- यपरित्लङ्कार.।

भाषा

 इससे वढ़ कर आपका और दूसरा क्या उचित कार्य हो सकता है। आपने अपने ओदार्य के अनुरूप कार्य किया । चालुक्य वंश के किस राजा ने अर्थियो की प्रार्थना का निषेध किया है अर्थात किसी ने नही।