पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३१९ )


वेत्सि मे पतिमवञ्चकं यदि स्वच्छतां स्पृशति चात्र ते मनः ।
तन्निवृत्य कुरु तुङ्गभद्रया मुद्रिते पदमुपान्तचर्मनि ॥५६॥

अन्वयः

  यदि मे पतिम् अवञ्चकं वेत्सि, अत्र ते मनः च स्वच्छतां स्पृशति तत् निवृत्य तुङ्गभद्रया मुद्रिते उपान्तवर्त्मनि पदं कुरु ।

 

व्याख्या

 (हे राजन् !) यदि त्वं मे मम पति स्वामिनं द्राविडेश्चरमवञ्चकं निष्कपटहृदयं स्वच्छान्तःकरणमित्यर्थः वेत्सि जानासि । अत्राऽस्मिन्विषये ते तव मनश्च चेतश्च स्वच्छतां नैर्मल्यं स्पृशत्यालिङ्गति तत्तर्हि निवृत्याऽस्मात्स्थानात्परावृत्य तुङ्गभद्रया तन्नाम नद्या मुद्रिते चिन्हित उपान्ते वर्त्म तस्मिन् सीमान्तप्रदेशे पदं स्थितिं स्वनिवासमित्यर्थः । कुरु विधेहि ।

भाषा

 यदि आप मेरे स्वामी द्राविडेश्वर को निष्कपट समझते है और इस सम्बन्ध में आप का मन यदि सन्देह रहित है तो आप यहाँ से लौट कर तुङ्गभद्रा नदी से चिन्हित सीमान्तप्रदेश में अपना डेरा डालिये ।

कैश्चिदेव सततप्रयाणकैस्तत्र शुद्धहृदयः करिष्यति ।
स त्वया परिचयं प्रतापिना पर्वणीन्दुरिव तिग्मरश्मिना ॥१५७॥

अन्वयः

 तत्र शुद्धहृदयः सः कैश्चित् एव सततप्रयाणकैः प्रतापिना त्वया पर्वणि इन्दुः तिग्मरश्मिना इव परिचयं करिष्यति ।

 

व्याख्या

 तत्र तुङ्गभद्रासीमान्तप्रदेशे शुद्धं निष्कपटं हृदयं मनो यरय स निर्मलमानसः स द्राविडेश्वरः कैश्चिदेव कियद्भिरेव सततं निरन्तरं प्रयाणाकानि गमनानि प्रस्थानानि या तैः प्रतापिना प्रभावशालिना त्वया भवता सह पर्वण्यमायामिदुश्चन्द्रस्तिग्मरश्मिना सूर्येणेव परिचयं सम्मेलनं करिष्यति विधास्यति ।अत्रोपमालङ्कारः ।