पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३२० )

भाषा

 तुङ्गभद्रा के सीमान्त प्रदेश में निष्कपट हृदय वाले मेरे स्वामी द्राविडेश्वर, प्रतापी आप से, अमावस्या को, चन्द्रमा के तेजस्वी सूर्य से मिलने के समान, रास्ते में लगातार कुछ ही डेरे डालते हुए, आ मिलेंगे ।

गाहतेऽत्र धृतकार्मुके त्वयि प्रीतिदानमपि भीतिदानताम् ।
तेन तस्य महती विलक्षता यत्र वेत्सि गुणपक्षपातिताम् ॥५८॥

अन्वयः

 अत्र धृतकार्मुके त्वयि प्रीतिदानम् अपि भीतिदानतां गाहते तेन यत्र गुणपक्षपातितां वेत्सि तस्य महती विलक्षता ।

 

व्याख्या

 अत्राऽस्मिन् चोलराजप्रवाननगर्यां धृतं गृहीतं कार्मुकं धनुर्येन स तस्मिन् सज्जधनुषि त्वयि विक्रमाङ्कदेवे प्रीत्या प्रेम्णा दानं कन्यायाः प्रदानमपि भीत्या भयेन दानं तस्य भावस्तां भीतिदानतां भयजन्यदानत्वं गाहते प्राप्नोति । सज्जधनुषाय तुभ्यं यत्प्रीतिपूर्वकमपि दास्यते तद्भयेन दत्तमिति सर्वेषां ज्ञानं भवेदिति भावः । तेन कारणेन यत्र यस्य द्राविडराजस्य विषये गुणेषु तदीयेषु गुणेषु सौजन्यादिषु यस्ते पक्षपातस्समादरस्तस्य भावो गुणपक्षपातितां तां वेत्सि जानासि धारयसीत्यर्थः । तस्य द्राविडाधिपस्य महती विपुला विलक्षता सलज्जत्वम् । अथवा तं प्रति सर्वेषां विस्मयान्वितत्वं यदेवं शौर्ययुक्तोऽपि भयात् कन्या ददतीति । 'विलक्षो विस्मयान्विते’ इत्यमरः । तद्भयात्तेन कन्या प्रदत्तेति तस्य महदपयशस्तेन यस्य धृते तव गुणपक्षपातित्वं वर्तते स लज्जास्पदं मा भूयादिति हेतोः सीमान्तप्रान्त एव तव दर्शनं वरमिति भावः ।

भाषा

 उस द्रविड राजा के राज्य की प्रधान नगरी में धनुष लेकर (अपनी सेना के साथ) आये हुए तुमको जो प्रेम पूर्वक भी दिया जाएगा वह लोगों की दृष्टि में भय से दिया गया समझा जाएगा । इस कारण से जिसके गुणो के प्रति आप का समादर है उस चोलदेश के राजा को लज्जित होना पडेगा । या सब लोग उसके सम्बन्ध में आश्चर्य करने लगेंगे कि इतना पराक्रमी और शौर्ययुक्त होने पर भी उसने भय से अपनी लड़की कैसे दे दी ।