पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३३

पुटमेतत् सुपुष्टितम्

( ५ )

वचांसि ज्ञानप्रदविशिष्टवाक्यानि लब्धुमिव बृहस्पतितोऽप्यधिकं ज्ञानं प्राप्तुमिव यस्याः सरस्वत्या मुक्ताक्षसूत्रस्वं मौक्तिकजपमालात्वमुपैति प्राप्नोति, मुक्ताक्षसूत्रव्याजेन सरस्वतीमुपसेवते । सा सरस्वती शारदा वागदेवता वो युष्मभ्यं सप्रसादा प्रसन्ना अस्तु । बृहस्पतिमात्सर्यहेतुकवचस्सारप्राप्तीच्छाया ग्रहमण्डल्यां मुक्ताक्षसूत्रत्वारोपे फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षेव-पदवाच्या ।

भाषा

 बृहस्पति के अतिरिक्त अन्य ग्रहगण, बृहस्पति ग्रह होते हुए भी वाणी का पति और देवगुरु है, इस ईर्ष्या से, बृहस्पति से भी अधिक ज्ञान की विशिष्ट बातें जानने की इच्छा से, जिस सरस्वती की मोती की जपमाला में मानो मोती बन कर उसकी सेवा करते है, ऐसी सरस्वती तुम लोगों पर प्रसन्न हो ।

अशेषविघ्नप्रतिषेधदक्ष-मन्त्राक्षतानामिव दिङ्मुखेषु ।
विक्षेपलीला करशीकराणां करोतु व: प्रीतिमिभाननस्य ॥८॥

अन्वयः

 इभाननस्य अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानाम् इव करशीकराणां दिङ्मुखेषु विक्षेपलीला: वः प्रीतिं करोतु ।

व्याख्या

 इभस्य गजस्याऽऽननं मुखमिवाऽऽननं मुखं यस्य तस्य गणेशस्याऽशेपाश्चते विघ्नाः प्रत्यूहा: 'विध्नोंऽतरायः प्रत्यूह:' इत्यमरः । तेषां प्रतिषेधे निवारणे दक्षाणां समर्थानां मन्त्राक्षतानामिवाऽभिमन्त्रिताक्षतानामिव, करशीकराणां वमयूनां शुण्डोत्क्षिप्ताम्बुकणानां 'शीकरोऽम्बुकणा: स्मृताः' । वमयुः करशीकरः । इत्यमरः । दिङमुखेषु सर्वदिक्षु विक्षेपलीला गजाना स्वाभविकीयं जलक्रीडा वो युष्मान् प्रीतिमानन्दं करोतु वितरतु । करशीकरेषु मन्त्राक्षतत्वस्योत्प्रेक्षणाद्वस्तूत्प्रेक्षा ।

भाषा

 हाथी के ऐसे मुखवाले श्री गणेश जी के सम्पूर्ण विध्नो को दूर करने में समर्थ अभिमन्त्रित अक्षतो के समान, समग्र दिशाओं में अर्थात् चारो ओर सूंड से छोड़े हुए जल कण तुम लोगों को आनन्द दें ।