पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३२३ )

व्याख्या

 प्रजा जनास्तस्य द्राविडेश्वरस्य कुन्तलेन्द्रस्य कुन्तलराजस्थाऽऽहवमल्लदेवस्य सूनुः पुत्रो विक्रमाङ्कदेवस्तेन सह निश्चलं दृढं सन्धेः स्नेहस्य बन्धं बन्धनं सन्धिबन्धं प्रेमबन्धनमवलोक्य ज्ञात्वा शान्तं समाप्तं साध्वसं भयमेव महाष्फ् महापीडा यासा ता दूरीकृतमहाव्यथा सत्यः स्वेषु निजेषु धामसु गृहेष्वादरं प्रेम ग्रहबन्धुर्वधूः। अयं विक्रमाङ्कवेधः स्नेहसम्बन्धेन न तु वि दिग्विजयार्थमत्राऽऽगत इति विनिश्चित्य त्यक्तचिन्ताजना आक्रमणकालिकगृहत्यागादिकं सम्प्रत्यनावश्यकमिति सुखेन स्वगृहेषु निवासं चक्रुरिति भावः ।

भाषा

 प्रजागण अपने राज द्रविडंबर का कुन्तलराज आहवमल्लदेव के पुत्र वित्रमाङ्कदेव से दृढ प्रेम सम्बन्ध जानकर भय रूपी महाव्यथा से शान्त होकर,अपने अपने घरों में सुख से रहने लगे । अर्थात् आक्रमण काल में जो अपना घर छोड सुरक्षित स्थान में रहने जाना पड़ता था उसकी आवश्यकता न समझ कर वे सुख से अपने अपने घर में ही रहे ।

दिग्गजश्रवणमङ्गकारिभिट्टेन्दुभिध्वनिभिरस्य भैरवैः ।
अभ्रमभ्रमुभुजङ्गडिण्डिमध्वनिनिर्भरमिव व्यराजत ॥६३॥

अन्वयः

 अस्य दिग्गजश्रवणभङ्गकारिभिः भैरवैः दुन्दुभिध्वनिभिः अभ्रम् अभ्रमुभुजङ्गडिण्डिमध्वनिनिर्भरम् इव व्यराजत ।

व्याख्या

 अस्य चोलदेशाधिपस्य दिशा ककुभां ‘दिशस्तु ककुभः कृष्णा आशाश्च हरितश्च ताः' इत्यमरः । गजा हस्तिनो दिग्गजोस्तेषां श्रवणानि भयानि कर्णास्तेषां भङ्गो बधिरीकरणं तत्कुर्वन्तीति तैर्विघ्नागर्क्यबधिरीकरणसम्पादनैर्भैरवैभयानकैर्दुण्दुभीनां भैरीणां ‘भेरि स्त्री दुन्दुभिः पुमान्’ इत्यमरः । ध्वनयस्स्वनारतैर्भैरीस्वनैरभ्रं नभोभ्रमरैरावतकान्ता हस्तिनी ‘ऐरावतोभ्रमातङ्गैरावणाभ्रमुवल्लभाः’ इत्यमरः। तस्या भुजङ्ग पतिरैरावतस्तस्य डिण्डिमो वाद्यविशेषः डिण्डिमसदृशोध्वनिर्वा ‘वाद्यप्रभेदाडमडमड्ड्डिण्डिमारर्गराः’ इत्यमरः। तस्य ध्यानेन