पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३२४ )


कठोरशब्देन निर्भरमिव व्याप्तमिव व्यराजताऽजायत । दुन्दुभिध्वनिध्वैरावत डिण्डिमध्वनित्वस्योत्प्रेक्षणादुत्प्रेक्षालङ्कारः ।

भाषा

 दिग्गजो के कानो को बहिरा कर देने वाले इस चोल राजा की तुरहियो के भयंकर शब्दो से मानो ऐरावत के नगाडे की ध्वनि से या नगाड़े के समान शब्द से आकाश गूज उठा हो, ऐसा प्रतीत होने लगा ।

सर्वतः श्रवणभैरवस्फुरद्- दुन्दुभिप्रतिरवापदेशतः।
सस्वनं द्विरदवृन्दघट्टनादस्फुटन्निव दिगन्तभित्तयः ॥६४॥

अन्वय:

 सर्वतः श्रवणभैरवस्फुरद्दुन्दुभिप्रतिरवापदेशतः द्विरद्वृन्दघट्टनात् दिगन्तभित्तयः सस्वनम् अस्फुटन् इव ।

व्याख्या

 सर्वतः सकलेषु प्रदेशेषु श्रवणेभ्य कर्णेभ्यो भैरवा भयानक् ये स्फुरन्त प्रकटीभवन्तो दुन्दुभीनां भैरीणां प्रतिरवा प्रतिध्वनयस्तेषामपदेशतो व्याजाद् द्विरदाना गजाना वृन्दानि समूहास्तेषां घट्टनात्संघर्षणाच्च दिशामन्ता दिगन्तास्तेषा दिगन्तप्रदेशानां भित्तयः कुड्यानि ‘भित्ति स्त्री कुड्यम्’ इत्यमरः। सस्वनं सशब्दमस्फुटन्निवाऽपतन्निव विदारिता इव जाता इति भावः।अत्रोत्प्रेक्षालङ्कर ।

भाषा

 चारो ओर जोर् २ से बजने वाली भेरियो के वर्णकटु प्रतिध्वनियो के मिंप से और हथियो के समूह के परस्पर धक्को से मानो दिगन्तप्रदेशों की दिवालें शब्द करती हुई फट रही थी ।

कर्णतालपवनोर्मिशीतलैः सिध्यति स्म करशीकराम्बुभिः।
दिग्गजानिव भयेन मूर्छितास्तस्य वारणपरम्परा पुरः ॥६५॥

अन्वय:

 तस्य वारणपरम्परा कर्णतालपवनोर्मिशीतलैः करशीकराम्बुभिः पुरः भयेन मूर्छितान् दिग्गजान् सिञ्चति स्म इव ।