पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३२५ )

व्याख्या

 तस्य चोलदेशाधिपस्य वारणानां गजानां परम्परा श्रेणिगजयूथा इत्यर्थः । कर्णास्ताला इवेति कर्णतालास्तालपत्रसदृशश्रोमाणि तेषां पवना वायवस्तेषामुर्मिभिस्तरङ्गैश्शीतलानि तैस्तालपत्राकारविशालश्रोत्रस्फुरणजनितवायुतरङ्गशीतैः कराणा शुण्डानां शीकराम्बूनि जलकणजलानि ‘शीकरोऽम्बुकणाः स्मृताः’ इत्यमरः । तैर्हस्तिशुण्डानिस्सरज्जलबिन्दुधाराभिः पुरोऽग्ने भपने महाशब्दजनितभीत्या मूर्छितन् चेतनारहितान् दिग्गजान् दिङ्नानान्सिञ्चति स्मेव पुनरपि चेतनाप्रात्यर्थं शीतलजलोपचारेण सेवत इव । अत्रोत्प्रेक्षालङ्कारः ।

भाषा

 चोलदेश के राजा के हाथियों का झुण्ड, अपने कान रुपी ताड के पत्तो या पंखो से उत्पन्न वायु की लहरो से ठण्ढे भए हुए सूड के छूटने वाले फुवारो के जल से, मानो सामने दिखाई देने वाले भय से मूर्छित दिग्गजो को फिर से होश में लाने के लिये, शीतोपचार कर रहा था ।

तच्चमूरजसि दूरमुद्गते यन्न दिग्भ्रममघत्त भास्करः।
हेतुरत्र रजसां निवारणं कुञ्जरध्वजपटान्तवीजनैः ॥६६ ॥

अन्वयः

 तच्चमूरजसि दूरम् उद्गते (सति) भास्करः यत् दिग्भ्रमं न अघत्त अत्र कुञ्जरध्वजपटान्तवीजनैः रजसां निवारणं हेतुः ।

व्याख्या

 तस्य चोलराजस्य चमूस्सेना ‘ध्वजिनी वाहिनी सेना पूतनाऽनीकिनी चमूः’ इत्यमरः । तस्थः रजोः धूलिस्तमिन् दूरमत्यूर्ध्वमुद्गते उत्पतिते सति भास्करः सूर्यो यद्दिशां भ्रमं दिग्भ्रन्तिं नाऽधत्त न यभाराऽत्राऽस्मिन्नर्थे कुञ्जराणा हस्तिनां ध्वजपटान्तानां पताकापटप्रान्तभावानां वीजनैस्संचलनैर्गजोपरिस्थितपताकावस्त्राञ्चलसंचलनसमुद्भूतपवनैरित्यर्थः । रजसा धूलीनां निवारणं समुत्सारणमेव हेतुः कारणम् । काव्यालिङ्गमलङ्कारः ।

भाषा

 उसकी सेना के चलने से उडी धूलि के बहुत उँचाई तक छा जाने पर,