( ३२७ )
व्याख्या
सुराणां वेदानां पांसुलाजनः स्वैरविहारिणोजनः कुसुमानां पुष्पाणां धूलयः परागः 'परागः सुमनोरजः' इत्यमरः । ताभिर्वासितास्सुरभीकृतास्तैः पुष्परेणु सुरभीकृतैर्नन्दनस्येन्द्रवनस्य द्रुमः वृक्षास्तेषां निकुञ्जः - लतादिपिहितोवराः ‘निकुञ्जकुञ्जौ वा क्लीबे लताविपिहितोदरे' इत्यमरः । तेषु पुञ्जिता एकत्रीभूतास्तैर्नन्दनोद्यान्वृक्शकुञ्जसञ्जितैः पासुभिः क्षितितलोत्थितरेणुभिश्चौर्येणाऽप्रशस्तरुपेण केलिः क्रीडा चौर्यकेलिः परपुरुशैस्समं परनारीणां रतोत्सयस्तदर्थं शयनं शय्या तस्मिन् शयनरचनार्थमुपयोगस्तस्मात् चौर्यरतिशय्यानिर्माणार्थोपयोगात् तुष्यति स्म सन्तोषं प्राप्नोति स्म । नन्दनोद्यानपर्यन्तमुथितायास्तदाछाद्य स्मितायाश्च धूलेः कोमलत्वाच्चौर्यक्रीदारतसुरपांसुलाजनस्य कोमलशय्याप्राप्त्या सुमहान् सन्तोषो जात इति भावः । अत्रातिशयोक्तिलङ्कारः ।
भाषा
स्वच्छन्द विहार करने वाला स्वर्गीय स्त्री समूह, पृथ्वी से उड़ कर नन्दन वन के कुञ्ज में फैली हुई और पुष्परज से सुवासित धूलि के कारण (उस भूमि के नरम हो जाने से) छिपकर विषयादि करने में कमैमल गय्या के सदृश उस भूमि का उपयोग होने रो, सन्तुष्ट हुआ ।
वीक्ष्य पुष्पमधु पांसुदूषितं नन्दनं ध्रुवममुच्यतालिभिः । |
अन्वयः
पांसुदूपितं पुष्पमधु वीक्ष्य अलिभिःनन्दनं ध्रुवम् अमुच्यत । यत् नभः अन्धकारपटलच्छलेन भृङ्गपूरितम् इव अभवत् ।
व्याख्या
पांसुभिः क्शोणीसमुष्यितरजोभिः ‘रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्नो न द्वयो रजः’ इत्यमरः। दूषितं वलुषीकृतं पुष्पाणां कुमुमानां मधुरसं मकरन्द वीक्ष्य दृष्ट्याऽलिभिर्भ्रमरैः ‘षट्पदभ्रमरालयः’ इत्यमरः । नन्दनं सुरेन्द्रोद्यानं ध्रुवं निश्चयेनाऽमृष्यत परित्यक्तम् । यद्यस्मात्कारणान्नभ आकशान्धकारस्य धूलिजनितध्वान्तस्य पटलं समूहस्तस्य छलेन व्याजेन भ्रङ्गैर्भ्रमरैः पूरितं व्यातमिवाऽभवज्जातम् ।कृणत्वादन्धकारे भृङ्गपटलस्योत्प्रेक्षालङ्कारः ।