पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३८ )


व्याख्या

 इति पूर्वोक्तमुदीरितवतोक्तवता निरन्तरमविच्छिन्नं हर्षजलेन प्रेमाश्रुणा पूर्णे व्याप्ते चक्षुषी नेत्रे यस्य तेनाऽऽनन्दाश्रुपरिप्लुतनयनेन तेन द्रविडाधिपेन कुन्तलेन्दुः कुन्तलवेशचन्द्रो विक्रमाङ्कदेवः परामुत्कृष्टां मुदं हर्षमगमत् प्राप्तो द्राविडक्षितिपं द्रविडदेशाधिपं वीरराजेन्द्रमालिलिङ्ग च आश्लिष्टवांश्च । प्रेम्णा तस्याऽऽलिङ्गनञ्चकारेत्यर्थः ।

भाषा

 पूर्वोक्त बातें कहने वाले और निरन्तर प्रेमाश्रुषो से भरे नेत्र वाले द्रविड देश के राजा से कुन्तलदेश का चन्द्र विक्रमाङ्कदेव बहुत प्रसन्न हुआ और उसको गले लगा लिया ।

अर्धासनप्रणयपूर्णमनोरथोऽथ
                श्रीकुन्तलेश्वरमवोचत चोलभूपः।
प्रत्यादिशन्दशनचन्द्रिकया किरीट-
                रत्नातपं सदसेि राजपरम्पराणाम् ]]८५]

अन्वयः

 अथ अर्धासनप्रणयपूर्णमनोरथः चोलभूपः सदसि दशनचन्द्रिकया राजपरम्पराणां किरीटरत्नातपं प्रत्यादिशन् (सन् ) श्रीकुन्तलेश्वरम् अवोचत ।

व्याख्या

 अथ परस्परालिङ्गनानन्तरं (सिंहासने} अर्धासनस्य प्रणयेन कृपयाडर्धा सनप्रदानकृपयत्यर्थः। पूर्णस्सफलो मनोरथो वाञ्छितार्थो यस्य स चोलभू- पश्चोलनृपो धीरराजेन्द्रः सदसि सभायां 'समज्य परिषद्गोष्टी राभा- समितिससदः । आस्थानी बलीवभास्थानं स्त्रीनपुंसकयोः सदःइत्यमरः । दशनानां दन्तानां चन्द्रिका प्रशस्तया दन्तकान्त्या राजपरम्पराणां नृपश्रेणीनां किरीटे मुकुटे रत्नानि मणयस्तेषामातपं प्रकाशं प्रत्यादिशन् निराकुर्वन् सन् श्री कुन्तलेश्वरं विक्रमाङ्कदेवं प्रत्यवोचतोवाच । एतेन द्राविडेश्वरस्य स्वात्मनि गोरवविशेषो ध्यन्यते । वसन्ततिलकावृतम् । 'उक्त। वसन्ततिलका तभजाः जगोगः’ । इति लक्षणात् ।