पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४२ )

व्याख्या

 अथाऽनन्तरं कन्याया: स्वात्मजाया अन्तःपुरमवरोधनं ‘स्त्रयगारं भूभुजामन्तः पुरं स्यादवरोधनम्' इत्यमरः । एव घाम गृहं तस्मिन् कन्यावरोधगृहे धैर्यस्य गाम्भीर्यस्य निधिराकरस्तेन महाधैर्यवता द्रविडेश्वरेण द्रविडाधिपेन वीरराजेन्द्रेण माधुर्याणां मधुरभावानां धुर्या धीरेया अग्रगण्या इत्यर्थः । ‘धूर्बहे धुर्य धौरेय धुरीणाः सधुरंधराः' इत्यमरः । तैर्विशेषमधुरैः पदैश्शब्दैरित्यादि पूर्वोक्तमन्यच्च निबिडप्रेम्णा सान्द्रस्नेहेन मुहुर्वारं वारं व्याहृतः कथितः सः प्रसिद्धः चालुक्यस्य चालूक्यवंशस्य विद्याधरः श्रेष्ठजनो देवो विक्रमाङ्कदेवः नामैकदेशग्रहणे नाम- ग्रहणमिति' । चोलीनां चोलाङ्गनानां कुटिलासु वक्रासु कुन्तललतादोलासु केशवल्लीरूपान्दोलिकासु लोलां चञ्चलां दृशं दृष्टि विनोदयन् व्यापारयन्मुद मानन्दमगात्प्राप । शार्दूलविक्रीडितच्छन्दः। सूर्याश्वैर्यदि मः सजौ । सततगाः शार्दूलविक्रीडितम् । रूपकमलङ्कारः ।

भाषा

 इसके अनन्तर, कन्या के अन्तः पुर में, अत्यन्त धीर, द्रविड देश के राजा, वीरराजेन्द्र द्वारा विशेष मधुर शब्दो में बार २ घनिष्ट प्रेम से ऐसी २ बातो से सम्बोधित उस चालुक्यवश में श्रेष्ठ, विक्रमाङ्कदेव ने चोलदेश की अङ्गनाओ के घुघराले केशलता रूपी झूलो पर अपनी चञ्चल नजर फेरते हुए, आनन्द प्राप्त किया । अर्थात् हवा से हिलने वाले घुघराले बालवाली अङ्गनाओं को देख कर उसे हर्ष हुआ ।

 इति श्रो त्रिभुवनमल्लदेव-विद्यापति-कारमीरकभट्ट श्री बिल्हण विरचिते विक्रमाङ्कदेवचरिते महाकाव्ये पञ्चमः सर्ग |

नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽग्र दामोदरात्
भारद्वाजवुघोत्तमात्समुदितः श्री विश्वनाथः सुधीः ।
चक्रे रामकुबेरपण्डितघरात्संप्राप्तसाहाय्यक-
ष्टीकायुग्ममिदं रमाकरुणया सर्गे शुभे पञ्चमे ।

ॐ शान्तिः शान्तिः शान्तिः ।