पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१०)


स्करा वैश्या इव समुद्रमन्यनाविर्भूतामृतापहरणचिता वैश्या इव प्रगुणीभवन्ति बहुलीभवन्ति सर्वतो वर्धन्ते तीव्रा लोलुपाश्च सन्तीत्यर्थः । काव्यार्थचौरेषु दैत्यसादृश्यादुपमा । ‘साधर्म्यथमुपमाभेदे' इतिलक्षणात् ।

भाषा

 हे कवियो में श्रेष्ठ कविगण, साहिंत्यरूपीसमुद्र के मथन करने से अर्थात् चिरकाल तक अभ्यास करने से उत्पन्न और कान को सुख देनेवाले काव्यरूपी अमृत की सदैव रक्षा करते रहिए । क्योकि इस काव्यरूपी अमृत की चोरी करने के लिए, समुद्रमन्थन के समय अमृत की चोरी करने में लालायित दैत्यो के समान बहुत से काव्य रूपी धन के चोर एकत्रित हो गए है ।

गृण्हन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम्।
रत्नेषु लुप्तेषु बहुष्वमत्परद्यापि रत्नाकर एव सिन्धुः ॥१२॥

अन्वयः

 यदि वा सर्वे यथेष्टं गृण्हन्तु। कवीश्वराणां का अपि क्षतिः न अस्ति । अमर्त्यैः बहुषु रत्नेषु लुप्तेषु अद्य अपि सिधुः रत्नाकरः एव ।

व्याख्या

 यदि वा अथवा पक्षान्तरे रावें काव्यार्थचौरा यथेष्टमिष्टमनतिक्रम्य यथास्या- त्तथा यथेष्टं यथेच्छं गृहन्तु काव्यरूपं कर्णामृतं स्वोपयोगे समानयतु । तथापि कवीश्वराणां कवीन्द्राणां काऽपि काचिदपि क्षतिर्हानिर्नास्ति न सम्भवति । अमत्यैर्देवैः "अमरनिर्जरादेवाः-आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः' इत्यमरः । बहुष्वसख्यातेषु रत्नेषु लुप्तेषु अपहृतेषु सत्स्वप्यद्यापि साम्प्रतमपि सिंधुः समुंद्रः 'उदन्वानुदधिः सिन्धुः सरस्यान् सागरोऽर्णवःइत्यमरः। रत्नाना मणीनामाकरो निधिरेय प्रसिद्धः। देवैः प्रचुरत्नानि गृहीतानि तथापि समुद्रस्य स्नाकरत्वप्रयुक्तं माहात्म्यं पूर्ववदेव । अत्र दृष्टान्तालङ्कारः ‘दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् ।

भाषा

 अथवा काव्यार्थ चोर काव्य रूपी द्रव्य की चोरी यथेच्छ करते रहें, इसमें श्रेष्ठ कवियो की कोई क्षति नही है । देवताओ ने समुद्र में से बहुत से रत्न निकाल लिए तो भी समुद्र अभी भी रत्नाकर ही कहा जाता है ।