पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३५५ )

विक्रमाड्कदेवस्तस्य प्रथमविलोकनस्य सर्वप्रथमसदर्शनस्य यत्कौतुकं कौतूहलं तस्मिन् त्वरा सम्भ्रमो यासां तास्तासां नगरस्य काञ्चीपुर्याः कुरङ्गलोचना मृगनय नास्तासां कामिनीनामिति पूर्वोक्तप्रकारोऽनङ्गस्य कामस्य विलोभनो विमोहनोऽ ऽनङ्गविलोभनो मदनमोहनो विलासो नानाविधकामसम्बन्धिवेष्टाविशेषोऽभवत् प्रादुर्बभूव ।

भाषा

 किसी प्रकार चिह्नादि से पहिचान में आए हुए चुलुक्य वशीय राजकुमार विक्रमाङ्कदेव के पहिले पहिल दर्शन की उत्कण्ठा से त्वरा करने वाली नागरिक मृगनयनियो की पूर्वोक्त प्रकार की काम सम्बन्धि चेष्टाएँ हुईं।

'नरपतितनयः कयापि कोपस्फुरितरदच्छदलेखयालुलोके।
प्रकटितपटुपश्चबाणलीला-कलकिलकिञ्चितमीक्षणाञ्चलेन ॥१६॥

अन्वयः


 कोपस्फुरितरदच्छदलेखया कया अपि ईक्षणाञ्चलेन प्रकटितपटुपञ्च - बाणलीलाकलकिलकिञ्चितं नरपतितनयः आलुलोके ।

व्याख्या


 कोपेन क्रोधेन स्फूरितस्सचलित कम्पमानो वा यो रदश्छदोऽधरस्तस्य लेखा अधरदेशः 'ओष्ठाधरो तु रदनच्छदो दशनवाससो' इत्यमरः । यस्याः सा तया क्रोधकम्पितसूक्ष्माधररेखया कयाऽपि नायिकया ईक्षणयोर्नेत्रयोरञ्चलः प्रान्त- भागरतेन कटाक्षेण प्रकटिता प्रकाशिता पटुर्विविधवैदग्ध्यसमेता सा पञ्चबाणस्य कामस्य लीला क्रीडा तया कलं मधुर किलकिञ्चितं कामजनितक्रोधाश्रुहर्ष. भीत्यादिमिश्रितभावविशेषो यस्मिन्कर्मणि तद्ययास्यात्तया नरपतितनयो राजपुत्रो विक्रमाङ्कदेव आलुलोके सवृष्टः ।

भाषा

 क्रोध से फुरफुराने वाले औठ से युक्त, किसी नारी ने कामदेव की चातुरी युक्त मनोहर लोला से आभ्यन्तरिक राग क्रोधादि भावो को प्रकट करते हुए, राजपुत्र विक्रमाङ्कदेव को कटाक्ष से देखा ।

सन्दर्भदृष्ट्या श्लोकोऽय पूर्वश्ललत्प्रागैव स्थानमपेक्षते ।