पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६९ )

व्याख्या

 उन्नतं समुदार चेतश्चित ‘चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः। यस्य स उन्नतचेतास्तेनाऽमुना विक्रमाङ्कदेवेनाऽप्रजस्य ज्येष्ठभ्रातु सोमदेवस्य किमनुचितं प्रतिकूलं व्यवसितं कृतं यद्यस्मात्कारणादस्मि न्विक्रमाङ्कदेवेऽपकरणस्याऽपकारस्य घीर्बुद्धिस्तया कुलरिपुणा वशपरम्परागत- शत्रुणा चोलराजिगेन वेङ्गिचोलदेशाधिपतिराजेन्द्रेण सह साकं सन्धि गुप्त मैत्रीं चकार सम्पादितवान् ।

भाषा

 उदारचित्त विक्रमादङ्कदेव ने अपने बड़े भाई सोमदेव का क्या बिगाडा था जो इसने, विक्रमाङकदेव का अपकार करने की इच्छा से चालूक्य वश के शत्रु वेङ्गिचोलदेशाधिपति राजेन्द्र से सन्धि कर ली ।

अथ नृपतनये कृतप्रयाणे गलितनयस्य वधाय राजिगस्य ।
त्वरिततरमुपागतोऽस्य पृष्ठे सह सकलेन बलेन सोमदेवः ॥३६॥

अन्यय:

  अथ नृपतनये गलितनयस्य राजिगस्य यथाय कृतप्रयाणे (सति) सोमदेवः सकलेन बलेन सह अस्य पृष्ठे त्वरिततरम् उपागतः ।

व्याख्या

 अथाडनन्तर नृपयाऽऽहवमल्लदेवस्य तनये पुत्रे विक्रमाङ्कदेवे गलित औचित्य- मार्गात्परिभ्रष्टो नयो नीतिमार्गो यस्य स तस्य राजिगस्य वेङ्गि-राजेन्द्रस्य वधाय नाशाय कृत विहित प्रयाण प्रस्थान येन स तस्मिन्, प्रस्थिते सति सोमदेवो ज्येष्ठभ्रात सकलेन सम्पूर्णेन बलेन सैन्येन 'अनीकिनी बलं सैन्य चक्र चानीक मस्त्रियाम्' इत्यमरः । सह साकमस्य विक्रमाङ्कदेवस्य पृष्ठे पृष्ठभागे त्वरिततरं द्रुततरमुपागतस्सप्राप्तः ।

भाषा

 बाद में, राजपुत्र विक्रमाङकदेव के, अनुचितनीति मार्ग पर आरूढ वेङ्गि राजेन्द्र का वध करने के लिये रवाने होने पर, सोमदेव अपनी सब पलटनो के साथ इसके पीछे जल्दी से आ गया।