पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२ )


व्याख्या

 कवीनां काव्यरचयितृणां गुणः प्रकर्षः साहित्यविद्यायां साहित्यविद्योपार्जने तदनुशोलने च यःश्रभो निरन्तराभ्यासस्तेन वर्जितेषु रहितेष्वनार्द्वेप्वरसिकेषु प्राणिषु कुण्ठत्वं स्वप्रभावराहित्यमायाति प्राप्नोति हृदयङ्गमो न भवतीत्यर्थः। सहृदयाः पण्डिताः साहित्यविद्यायां कृतभूरिश्रमा एव काव्यस्य यथार्थमाहात्म्यं जानन्ति न तु मतिहीना अविद्वांस इति भावः । अङ्गनानां कामिनीनामनार्द्रेषु तैलादि स्निग्धपदार्थाननुलिप्तेषु केशेषु कचेषु कृष्णागरोश्चन्दनकाष्ठविशेषस्य कस्तुरी मिश्रितसुगन्धद्रव्यस्य वा धूपवासः सुगन्धः (अग्नौ सुगन्धद्रव्यं प्रक्षिप्य -- तद्धूमोपर्या र्द्रकेशानामनार्द्रीकरणं लोके प्रसिद्धम् ।) ( कि कुर्याद्विडम्बनायैवेत्यर्थः । न तस्यं किञ्चिदुपयुक्तं फलम् । अत्र दृष्टान्तालङ्कारः ।

भाषा

 कवियो का गुण (वैशिष्ट्य) साहित्यविद्या का अभ्यास करने में परिश्रम न करने वाले तथा नीरस मनुष्यो पर अपना प्रभाव नहीं डाल सकता । स्त्रियों के स्निग्धता रहित सूखे हुए केशो में चन्दनविशेष या कस्तुरीमिश्रित सुगन्धित द्रव्यो या धूप क्या कर सकता है । अर्थात् सूखे हुए केशो को सुगन्धित धूप देने से उनमें सुगन्ध नही आ सकती ।

प्रौ ‘ढिप्रकर्षेण पुराणरीति-व्यतिक्रमः श्लाघ्यतमः पदानाम् ।
अत्युन्नतिस्फोटितकञ्चुकानि वन्द्यानि कान्ताकुचमण्डलानि'।१५।।

अन्वयः

 पदानां प्रौढिप्रकर्षेण पुराणरीतिव्यतिक्रमः श्लाघ्यतमः । अत्युन्नति- स्फोटितकञ्चुकानि कान्ताकुचमण्डलानि वन्द्यानि ।

• ‘‘अत्र 'प्रौढि’ पद प्राचीनाऽलङ्कारिकस्वीकृतगुणविशेषमात्रपरमितिव्याख्या- तु नोचिराम् । तादृशार्थकरणे सयुचितार्यप्रणषवत्वेन कवेरभिप्रायः स्फुटो । यात । अत्र तु 'प्रौढि' शब्देन कविप्रतिभाविशेषस्तन्मूलको वन्यलङ्कारादि सन्निवेशश्च विवक्षित इति ।" २ भावोऽयमत्रपि प्रदर्शित । अस्त्यप्रतिसमाधेय स्तनद्वन्द्वस्य दूषणम् । स्फुटता चुनना सन्नायात्यावरणीयताम् ।। (सर्गे-८ श्लोकः ४५)• ‘‘अत्र 'प्रौढि’ पद प्राचीनाऽलङ्कारिकस्वछतगुणविशपमात्रपरमितिव्याख्या- तु नोचिराम् । तादृशार्थकरणे सयुचितार्यप्रणषवत्वेन कवेरभिप्रायः स्फुटो । यात । अत्र तु 'प्रौढि' शब्देन कविप्रतिभाविशेषस्तन्मूलको वन्यलङ्कारादि सन्निवेशश्च विवक्षित इति ।" २ भावोऽयमत्रपि प्रदर्शित । अस्त्यप्रतिसमाधेय स्तनद्वन्द्वस्य दूषणम् । स्फुटता चुनना सन्नायात्यावरणीयताम् ।। (सर्गे-८ श्लोकः ४५)