पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३८२ ) समागतः प्राप्तः । तत्तस्मात्कारणात् समरस्य रणस्य शिरस्यग्रे सञ्चरन्निर्भयं परिभ्रमभ्यं सोमदेव पृषत्कैर्वाणैरपरामृशत स्पर्शमकुर्वता मया विक्रमाङ्कदेवेन कथं केन प्रकारेण निवार्यो दूरीकरणीयः। युद्धाय कृतनिश्चयोऽय सोमदेवो मदकृतबाणप्रहारमन्तरा समराङ्गण विहाय कथं गमिष्यतीति भावः । चूंकि नीतिमार्ग से च्युत भेरा बडा भाई सोमदेव मेरे इस शत्रु द्रविडाधिपति राजिग के साथ यहाँ आया है इसलिए युद्ध में आए हुए अपने बड़े भाई को में किस प्रकार बिना वाणी से आघात पहुँचाए दूर करू? पितुरपि परिपन्थिनीं विधाय श्रियमहमत्र निवेशयाम्बभूव । सपदि कथमिमं कदर्थयामि व्यथयति मामहृदा महाननर्थः॥५८॥ अन्वयः अहं श्रियं पितुः अपि परिपन्थिनीं विधाय अत्र निवेशयाम्बभूव (अहं) इमं सपदि कथं कर्दथयामि । अहहा ! महान् अनर्थः मां व्यथयति । ख्यया अह विक्रमाङ्कदेव श्रिय राज्यलक्ष्मीं पितुराहवमल्लदेवस्यापि परिपन्थिनीं विरुद्धा पित्राऽप्यननुमोदितामित्यर्थः । विधाय रचयित्वाऽत्र सोमदेवे निवेशया म्बभूव स्थापयञ्चकार । अह सपदि सद्य इम सोमदेव कथ कस्मात्कदर्थयामि पीडयामि अहहेति खेदे । महाननर्थो भाविमहदनिष्ट सा व्यथयति मे मनसि विपुलाषं जनयति । भाषा मैने ही अपने पिता आहवमल्लदेव की ' इच्छा के विरुद्ध, इसको राज्यलक्ष्मी दिलाई । अब मै तुरन्त ही अपने बड़े भाई सोमदेव को (जिसको में ने हो राजगद्दी दिलाई है) कैसे कुचलू । अरे रे ' बडा भारी (भाबी) अनर्थ मुझे पीड़ित कर रहा है । अपसरणमितः करोमि किंस्वित् प्रसरति गोत्रवधाय नैप चाहुः। परमयमयशांसि दुष्टलोकः किमपि निपात्य मयि प्रमोदमेति ॥५॥