पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

(३९०)


अन्वय:

आपतन्त्या आसितपताकया परिचुम्बितं मुखं दधानः ध्वजगरुडः वदनपरिगृहीतपन्नगस्य सत्यगरुत्मतः प्रतिष्ठा व्यतनत ।

व्याख्या

आपतन्त्या सम्मुखमागच्छन्त्याऽसितपतक्या कुरुणवर्णध्वजेन परिचुम्बितं संयुक्तं मुखमप्रभागं दधानो धारयन् ध्वजगरुडः केतुचिह्नभूतोगरुडो वदने मुखे परिगृहीतः सधारितः पन्नगस्सर्पो येन स तस्य मुखध्रूतसर्पस्य सस्यगरुत्मतो वास्तविकगरुडस्य 'गरस्मन् गरुडस्तार्क्षो वैनतेयः खगेश्वर:' इत्यमरः । प्रतिष्ठां स्थिति साम्यमित्यर्थः । व्यतनुत प्राप्तवान् विस्तारितवानित्यर्थः । कृष्णवसाम्याद सितपताकायां सर्पत्वकल्पना। । उपमालङ्करो, निदर्शना वा ।

भाषा

सामने से आने वाली सेना के काले झण्डे के, गरूड के चिह्न वाले झण्डे के अग्रभाग में मिलने से वह झण्डे मे का गरुड, मुख में सर्प को पकडे हुए सच्चे गरुड की शोभा को प्रकट करता था । अर्थात् काला झण्डा माना काला सांप ही था ।

प्रकटितपदुमौक्तिकावतंस-द्विरदशिरःस्थलसङ्गतिं प्रपद्य ।
अलभत परमार्थसिंहलीलां करिवरकेतुपरिच्युतो मृगेन्द्रः ॥७१॥

अन्वय:

करिवरकेतुपरिच्युतः मृगेन्द्रः प्रकटितपदुमौक्तिकावतंसद्विरदशिरःस्थलसङ्गतिं प्रपद्य परमार्थसिदलीलाम् अलभत ।

व्याख्या

कस्विरस्य हतिश्रेष्ठस्य केतुर्ध्यजस्तस्मात्परिच्युत: परिभ्रष्टो मुगेन्द्र' पतकासंलग्नईचह्नभूतः सिंह: प्रकाटितानि प्रकाशतेन पटूनि स्थूलान्युज यानि च मौक्तिकानि गजभक्ताफलान्येवाऽवतसा शिरोभुषणानि येषां ते द्विरदागजास्तेषां शिरःस्थलानि शिरांसि तैस्सह सङ्गतेि समागमं प्रपद्य प्राप्य परमार्थोंवास्तविकश्चाऽसौ सिंहश्च् परमार्थतहस्तस्य लीलां विस्रसमलभत प्राप । गजमौक्तिरुणभूषणेषु प्रतिबिम्धरूपेण पतितो ध्वजमुर्गेन्द्र परमार्थातिहृलीलां