पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३९५ )

भाषा

 किसी वीर ने मरणासन्न अवस्था में भी युद्ध में घुसकर विपक्षी वीर के मस्तक पर लात देकर अपने जीवन का फल भी प्राप्त भया समझा। बड़े लोगो का प्रेम यश में होता है शरीर में नहीं।

विधटितकवचश्चवार कश्चित् प्रतिभटभुज्झितङ्कटं विलोक्य ।
विमलविजयलालसाः खलानामवसरमल्पमपि प्रतिक्षिपन्ति ॥७८॥

अन्वयः


 कश्चित् उज्झितकङ्कट्टं प्रतिभटं विलोक्य विघटितकवचः सन् चचार । विमलविजयलालसाः खलानां अल्पम् अपि अवसरं प्रतिक्षिपन्ति ।

व्याख्या

 कश्चित्सुभट उज्झित" परित्यक्तः कङ्कटः कवचो 'उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् इत्यमरः । येन स त प्रतिभट विपक्षवीर विलोक्यदृष्ट्वा मल्लयुद्धाय सनद्ध त्यक्तकवच प्रतिभटः विलोक्येत्यर्थः । विघटितः स्वशरीरात्पृथक् कृतः कवचो येन स , प्रतिभटेने साक मल्लयुद्धस्य कवच देहात्पृ- थक्कृत्य रणेऽवतीर्णसन्नित्यर्थं । चचार बभ्राम । विमला। शुद्धा विजयस्य लालसाऽतिप्रीतिर्येषा ते वीराः खलानां नीचानां निन्दकानामित्यर्थः । अल्पमपि क्षुद्रमप्यवसर समय प्रतिक्षिपन्ति दूरीमुकुर्वन्ति । विमलविजयलालसास्तया व्यवहरन्ति यया खला. स्वल्पमपि निन्दावसर न प्राप्नुवन्तीति भावः ।

भाषा

 कवच को उतार कर रख देने वाले और मल्लयुद्ध को तयार विपक्षी योद्धा को देखकर कोई वीर अपना से कवच उतार कर मल्लयुद्ध के लिये तयार होकर टहलने लगा । विशुद्ध विजय से प्रेम रखने वाले वीर खला को निन्दा करने का थोडा भी अवसर नही देते।

रुधिरमृतकपालपंक्तिमध्ये मदकरटी विनिपत्य कर्णतालैः ।
शिशिरमिव चकार यानपात्रप्रणायनमासवमागतस्य मृत्यो:||७६||