पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४०० ) करोणां गजानां दशनानि दन्तास्तेषा परम्परा श्रेणिरनुकृतोऽनुह्रतः समवर्तिनो यमस्य ‘धर्मराज पितृपतिः समवर्ती परेतराट् इत्यमरः पानलीलाचषको सुरापानपात्रं ‘चषकोऽस्त्री पानपात्रम्' इत्यमरः । यैस्तानि करालानि भयङ्कराणि कपालानि शिरोऽस्थीनि ‘स्यात्कर्पटः कपालोऽस्त्री’ इत्यमरः । तान्येव शुवतयस्तासां मध्यं तस्मिन्निपत्य पतनं विधायोपदंशमूलकानां मद्यपा- नान्तराले चर्व्यमाणमूलकानां ('मूली' इति भाषायां प्रसिद्धः ।) श्रियं शोभाम तनोद्विस्तारयामास । मूलकश्रीसमश्रीविस्ताररूपार्थस्य प्रतीत्या पदार्थनिदर्शना लङ्कारः । भाषा हाथियो के दातो की कतार यमराज के शराब पीने के प्याले का अनुकरण करने वाली, भयङ्कर माथे की हड्डयाँ रूपी सीपो में गिर कर शराब पीते समय बीच २ में चबाई जाने वाली मूलियो की शोभा दे रही थी । वशमवनिपतिद्वयं नयन्ती चटुलपृषत्कटाक्षमालिकाभिः। क्षितिपतितनयेन वीरलक्ष्मीः सुचिरमनर्त्यत सङ्गराग्ररङ्गे ।८६।। अन्वयः = सङ्गराग़्ररङ्गे क्षितिपतितनयेन चटुलपृषत्कटाक्षमालिकाभिः अवनि पतिद्वयं वशं नयन्ती वीरलक्ष्मीः सुचिरम् अनर्त्यत । सङ्गरस्य संगमस्य 'प्रतिज्ञाजि सविदापत्सु सङ्गरः' इत्यमरः । अग्रमेव रङ्गो नाट्यशाला रङ्गमञ्च इत्यर्थः । तस्मिन् क्षितिपतेराहवमल्लदेवस्य तनयेन पुत्रेण विक्रमाङ्कदेवेन चटुलश्चञ्चलाः पृषत्का बाणा 'पृषत्कबाणविशिखा अजिह्मगखगाशृगाः इत्यमरः । एव कटाक्षा नेत्रप्रान्तदर्शनानि ‘अपाङ्गो नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने' इत्यमरः । तेषां मालिका. पङ्क्तयस्ताभिरचने पृथिव्याः पतिः स्वामीत्यवनपतिः तयोर्दे्वयं युगलं राजिगं सोमदेवञ्च वशं स्वाधीन तायां नयन्ती प्रापयन्ती वीरलक्ष्मीर्युद्धवीराणां राजलक्ष्मीः सुचिरं बहुकालमनर्त्यत नर्तनाय प्रवर्तिता रङ्गमञ्चाघिकारिणा रङ्गमञ्चे सचञ्चलकटाक्षा नर्तकीव विक्रमाङ्कदेवान समराङ्गणे सचञ्चलबाणवर्षं वीरलक्ष्मीरनर्त्यतेति भावः।