पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०९

पुटमेतत् सुपुष्टितम्

( ४०२ )

अन्वयः

अमुष्य शत्रुसेनाभटमुखपद्मविमर्दकेलिकालः द्विरदपतिः रणसरः झटिति लक्ष्मीकरधृतविभ्रमपुण्डरीकशेषं चकार ।

व्याख्या

 अमुष्याऽस्य विक्रमाङ्कदेवस्य शत्रूणामरीणा सेना चमूस्तस्या ये भटा योधा- स्तेषा मुखान्याननान्येव पद्मानि कमलनि तेषां विमर्दश्चूर्णनमेव केलि क्रीडा तदर्थं कालो यमो विनाशकारित्वात् । 'कालो दण्डधरः श्चाद्धदेवो वैवस्वतोऽन्तकः' इत्यमरः । द्विरदपतिर्गजनाथो रण एव सग्राम एव सरस्तडागस्तत् रणसरो युद्धतडागो झटिति शीघ्र लक्ष्म्या श्रियः करेण हस्तेन घृतं धारितं विभ्रमपुण्डरीकं विलाससितम्भोज 'पुण्डरीक सिताम्भोजम्' इत्यमरः । एव शेषोऽवशिष्टाशो यस्य तच्चकार निष्पादितवान् । रूपकालङ्कारः ।

भाषा

 शत्रु सेना के योद्धाओ के मुख कमलो को चूर २ कर देने की क्रीडा में यमस्वरूप, विक्रमादेव के श्रेष्ठ हाथी ने रणरूपी तालाव को जल्दी से महालक्ष्मी के हाथ में विद्यमान विलास का श्वेतकमल मात्र हो शेष रह गया हो, ऐसा कर दिया । अर्थात् लक्ष्मी के हाथ के कमल को छोड़ कर शत्रु के मुख रूपी सब कमलो को रणरूपी सरोवर में नष्ट कर दिया ।

धृतसुभटकरङ्कमङ्कवर्ति-द्विरदघटाविकटास्थिचक्रवालम् ।
रणमनणु कृतान्तभुक्तशेष-प्रणयि बभूव शिवासहस्रभोग्यम् ॥८६॥


अन्वयः

 धृतसुभटकरङ्कम् अङ्कवर्तिद्विरदघटाविकटास्थिचक्रवालं कृतान्तभुक्त शेषप्रणयि शिवासहस्रभोग्यम् अनणु रणं बभूव।

व्याख्या

 धृता गृहीताः सुभटाना सुयोधना करङ्का अस्थिपञ्जरा येन तत् । अङ्के क्रोडे वर्तीनि गतानि द्विरदाना गजाना विकटानि भयङ्कराण्यस्थिचक्रवाला- न्यस्थिसमूहा यस्य तत् , कृतान्तस्य यमस्य भुक्त भोजनं तस्य शेषस्तस्य प्रणयि स्थानं दोषयुक्तमित्यर्थ ” । तद्यमराजभक्षितमासशिष्टयुक्तमिति भावः । शिवानां शृगालीना सहस्रं तेन भोग्य भोगयोग्यं रणं युद्धमनणु बहुल बभूव जातम् ।