पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४१८

पुटमेतत् सुपुष्टितम्

( ४१३ )

गायन्तिपञ्चमम्' इति । स्थानस्य शुद्धोच्चारणोपयुक्त-मुखस्थित-कण्ठ ताल्वाद्यभिघातस्थानस्योपदेश्युपदेशकः सङ्गीताचार्य, श्रृङ्गारस्य श्रृङ्गाररसस्य बन्धु रुद्दीपको मधुर्वसन्त आविरासीत् समाजगाम । मालारुपकमलङ्कार: ।

भाषा

 इसी बीच में कामदेव का लगोटिया साथी, लता रूपी स्त्रियों को विभिन्न विलासों का उपदेश देने वाला, नाट्याचार्य; कोयल के पञ्चम स्वर के शुद्ध उच्चारण के लिये कण्ठ तालु आदि स्थानों की शिक्षा देने वाला सङ्गीताचार्य; श्रृङ्गार रस को उद्दीप्त करने वाला; वसन्त ऋतु आ गया ।

शीतर्तुभीत्या विविशुः समस्ताः किं कन्दरासीमनि चन्दनाद्रे:।
यन्निःसरन्ति स्म हिमव्यपाये दिवा च रात्रौ च ततः समीराः ॥४॥

अन्वय:

 समस्ताः समीरा: कि चन्दनाद्रे: कन्दरासीमनि शीतर्तुभीत्या विविशुः यत् हिमव्यपाये (ते) दिवा च रात्रौ च तत: निःसरन्ति स्म ।

व्याख्या

 समस्तास्सकलास्समीरा यापयः किं चन्दनाद्रेर्मलयपर्वतस्य कन्दरासीमनि दरीमप्ये ‘दरी तु कन्दरो याऽस्त्री' इत्यमरः । शीतर्तुभीत्या शिशिरर्तुभयेन विविशु: प्रविष्टाः । यद्यस्मात्कारणात् हिमस्य शिशिरर्तोर्व्यपाये समाप्तौ ते पवना दिवा दिने च रात्रौ च निशायाञ्च निशा निशीथिनी रात्रिस्त्रियाया क्षणदा क्षपा' इत्यमरः । ततश्चन्दनाद्रेर्नि:सरन्ति स्म निर्गच्छन्ति स्म । कन्दरासु प्रवेशे शीतर्तुभीतेर्हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा।

भाषा

 सम्पूर्ण वायु क्या शिशिर ऋतु के (ठण्डे के) भय से मलयाचल की कन्दराओं में छिप कर बैठे थे ? क्योकि शिशिर ऋतु के (जाड़े के) बीतते ही वे वायु रात दिन मलयाचल से निकलते ही चले आ रहे थे ।


कृतप्रकोपाः पवनाशनानां निवासदानादिव पन्नगानाम् ।
विनिर्ययुश्चन्दनशैलकुञ्जादाशामुदीचीं प्रति गन्धवाहाः ॥५॥