पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४१९ )

व्याख्या

 चन्दनमारुतस्य चन्दनसम्पर्केण समागतस्य दक्षिणानिलस्य दुराग्रहो दुष्टाभि- निवेशः कुप्रवृत्तिरित्यर्थ: । यदयं मारुतोऽन्येषु बसन्तातिरिक्तेषु ऋतुषु पराड्मुखो न प्रवहति । अनेन मलयानिलेन हेतुना चैत्रो वसन्तमासश्चन्द्रोदयेनेन्दुप्रकाशेन शरत्प्रदोषः शरत्कालिकरजनीमुखमिव ‘प्रदोषो रजनीमुखम्' इत्यमरः । सुतरा- मत्यन्तमसह्यः सोधुमशक्यः ।विरहिणीनां दक्षिणानिलवच्चीतलः शरत्कालिक- श्चन्द्रोदयोऽपि नितरां रान्तापजनको भवतीति भावः ।

भाषा

 यह तो दक्षिणानिल का दुराग्रह ही है कि वह वसन्त ऋतु को छोड़ कर अन्य अऋतुओं में बहता ही नही । इसके कारण से वसन्तमास चैत्र, चन्द्रमा का उदय होने के कारण से शरत् ऋतु की शाम के समान ही असह्य हो जाता है। अर्थात् विरहिणियो को बसन्त ऋतु तथा शरत् काल का चन्द्र दोनो ही सन्ताप जनक होते हैं।

वियोगिनीनां किमु पापमेतन्मेधाथवा दक्षिणमारुतस्य ।
कदापि दिङ्मोहवशाद्यदेष न चन्दनाद्रेः परतः प्रयाति ॥१३॥

अन्वय:

 एतत् वियोगिनीनां पापं किमु, अथवा। दक्षिणमारुतस्य मेधा यत् एषः दिङ्मोहवशात् कदापि चन्दानाद्रेः परतः न प्रयाति ।

व्याख्या

 एतत्प्रत्यक्षदृश्यमानोपद्रवः वियोगिनीनां विरहिणीनां पापं दुष्कृतपरिणामः किमु किमथवा यद्वा दक्षिणमारुतस्य दक्षिणानिलस्य मेधा धारणावती बुद्धिः ‘धीर्धारणवती मेधा' इत्यमर: । यद्यस्मात्कारणादैव मलयवायुर्दिङ्मोहवशा- द्दिग्भ्रमकारणेन कदापि कस्मिन्नपि काले चन्द्रनान्द्रेर्मलयपर्वतात्परतोऽन्यस्मा- त्प्रदेशान्न प्रयाति न गच्छति ।

भाषा

 यह जो विरहिणियों का प्रत्यक्ष कष्ट है वह वियोगिनियो के पापो का परिणाम है या दक्षिणानिल की मेधा का फल है ? क्योंकि मलयवायु दिग्भ्रम होने से कभी भी मलयपर्वत को छोड कर अन्य स्थानों से नहीं बहता है ।