पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४१७ )

 हे सखि १ हे वयस्ये * त्वया परुषै क्रूरै क्रोधोत्पादकैरित्यर्थ । वचोभिर्व चनैर्दक्षिणस्या भवो दाक्षिणात्यो मलयाचलसम्बन्धी वायु पवनो न विरूक्षणीयो न कोपनीय । यद्यस्मात्कारणादय वायु कोपस्य त्वत्परुषवचनजन्यक्रोधस्य निश्वासपरम्परा परुषवाक्यजातक्रोधोत्पन्नमन क्षोभजनि श्वासपरम्परास्ताभि पीनत्व स्थूलत्वमुष्णता ताषकत्वञ्चाऽऽयाति प्राप्नोति । मलयानिल शीतलोऽपि विरहिणीनामुष्णतामेव वेगेन वर्धयतीति भावः ।

भाषा

है सखि ! । तुम कडुए बचनो से दक्षिणानिलको कुपित न करो। क्योकि यह वायु क्रुद्ध होकर लम्ब २ उच्छवास लेने से मोटा अर्थात् वायु में उच्छ्वास के वायु मिलने से अधिक, और गरम हो जाता है । विरहिणियों को दक्षिणानिल ठडा होने पर भी गरम ही मालूम होता है ।

बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमास्तस्य ।
इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकन्दरस्थः ॥१०॥

अन्वयः

 श्रीखण्डपृथ्वीधरकन्दरस्थः शबराधिराजः बाणेन मृगं हत्वा अस्य दक्षिणमारुतस्य यात्रा निवायताम् इति अर्थनीयः ।

व्याख्या

 श्रीखण्डपृथ्वघरो मलयाचलस्तस्य कन्दरो दरी ‘दरी तु कन्दरो वा स्त्री इत्यमरः । तस्मिन् तिष्ठतीति श्रीखण्डपृथ्वीधरकन्दरस्थ शबराणा वनेचराणा मयिराज’ स्वामी बाणेन शरेण मृग वायुवाहनरूप मृग हत्वा मारयित्वाऽस्य दक्षिणमारुतस्य दक्षिणानिलस्य यात्रा प्रवह इत आगमनमित्यर्थ " निवार्यतां प्रतिषेधनीयेत्यर्थनीय प्रार्थनीय। वायोर्वाहन मृग अत एव स पृषदश्व इति कथ्यते । 'पृषदश्वो गन्धवहो गन्धवाहानिलाशृगा' इत्यमरः । वाहनाभावे वायोरत्राऽऽगमनमसम्भवमिति भाव।

भाषा

मलयाचल की कन्दरा में रहने वाले शबरराज से यह प्रार्थना करनी

२७