पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२८

पुटमेतत् सुपुष्टितम्

( ४२३ )

अन्वयः

विलासवत्यः दोलाविनोदेन सुदूरम् आरुह्य निवर्तमानाः (सत्यः) नभःप्राङ्गणसङ्गिनीनां त्रिदशाङ्गनानाम् अर्धं विलासम् आपुः

व्याख्या

 विलासवत्योऽङ्गना दोलाया प्रेङ्खाया विनोदेन क्रीडया सुदूरमत्यूर्ध्वदेशमारुह्य गत्वा निवर्तमाना पुनरघोदेश प्रति निवृत्ता सत्यो नभ एवाऽऽकाशमेव प्राङ्गण विस्तृतस्यान तस्मिन्सङ्गिन्य प्राप्तास्तासां त्रिदशाङ्गनाना देवाङ्गनानामाकाशे सचरणशीलानामप्सरसां वाऽर्ध विलास विभ्रम सारुप्यमित्यर्थ । आपु प्राप्तवत्य । अङ्गनानां रुपलावण्यातिशयाद्देवाङ्गनासादृश्यम्

भाषा

 अङ्गनाओ के हिंडोले की क्रीडा में बहुत ऊँचे जावर फिर नीचे लौट आन से, वे, आकाशरूपी आगन में विहार करन वाली अप्सराओ के आधे सारुप्य को प्राप्त हुई। अर्थात् कामिनियाँ झूला झूलते हुए आधे समय तव खूब ऊंचे और आधे समय तक नीचे रहने से ऊँचे रहन के आधे समय के लिये साक्षात् आकाश में विहार करने वाली अप्सराओ की शोभा प्राप्त करती थी।

विलासदोलाफलके नितम्ब--विस्ताररुद्धे परितस्तरुण्याः ।
लब्धः परं कुञ्चितकार्मुकेण तत्रावकाशः कुसुमायुधेन ॥१६॥

अन्वयः

 विलासदोलाफलके परितः तरुण्याः नितम्बविस्ताररुद्धे (सति) तत्र पर कुञ्चितकार्मुकेण कुसुमायुधेन अवकाशः लब्धः ।

व्याख्या

 विलासस्य क्रीडाया दोलाफलके दारुमयान्दोलनफलकं ‘तख्ता' इति भाषायाम् । तस्मिन परित सवंतस्तरुण्या युवतीजनस्य नितम्बरय कटिपश्चा द्भागस्य 'पाश्चान्नितम्ब स्त्रीकटया इत्यमरः । विस्तारेण विशालरुपेण रुद्धे समाच्छादिते सति तत्र दोलाफलके पर केवल कुञ्चितं सकोचमाप्त कार्मुक धनुर्यस्य स तेन कुसुमायुधेन कामेनाऽवकाश स्थान लब्ध प्राप्त ” । दोलावि-