पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२५ )

भाषा

चञ्चल झूलो पर नीलवमलनयनी ललनाओ का जो सौन्दर्य उमड पडा उसका यथार्थ वर्णन यदि कामदेव ही सरस्वती के प्रसाद से कविता रचना की शक्ति प्राप्त करें तो ही हो सकता है । अर्थात् कामदेव ही यदि कवि हो तो वे इस काम सम्बन्धित ललनाओ के सौन्दर्यं का सफलता से वर्णन कर सकते है।

दोलासु यद्दोलनमङ्गनानां यन्(या)मल्लिका यच्(श्च्)’च लवङ्गायुः ।
सा विश्वसंमोहनदीक्षितस्य मुख्याङ्गसम्पत्कुसुमायुघस्य ।२१।
}}

अन्वयः

 अङ्गनानां दोलासु यत् दोलनं, यत् लवङ्गवायुः यत् च मल्लिका, सा विश्वसंमोहनदीक्षितस्य कुसुमायुघस्य मुख्याङ्गसम्पत् (अस्ति ।)

व्याख्या

 अङ्गनाना सुन्दरीणा दोलासु प्रेखासु यद्दोलनमधस्तादुपरि चकमण यच्चान यदिति क्रियाविशेषण ययेत्यर्थ । लवङ्गवायुर्देवकुसुमसम्पर्कजन्य- सुगन्धवाही पवन 'लवङ्ग देवकुसुमम्' इत्यमरः । यद्त्रा$पि पूर्ववत् । मल्लिका पुष्पविशेष 'बेला' इति भाषायाम् । सा विश्वस्य सम्पूर्णससारप्राणिनां संमोहन कार्मणकर्म वशीकरणमित्यर्थ । तस्मिन् दीक्षितस्य सन्नद्धाय कुसुमा‌- युद्धस्य कामस्य मुख्याङाना प्रधानसाधनाना सम्पत्सम्पत्तिरस्ति। आंदोलन- मलिकापुष्प-लवङ्गवाघव एव कामस्या$खिललोकवशोकरणे प्रधानसाधना- नीत्यर्थ।

भाषा

ललनाओ का हिडोलो पर झूलना, बैले के फूळ और देवपुष्प, य सब विश्व का वशीकरण मरन में तत्पर कामदेव की प्रधान साधन सम्पत्ति है ।

प्रसार्य पादौ विहितस्थितानां दोलासु लौलांशुकपलवानाम् ।
मनोरथानामपि यत्र गम्यं तद्द्र्ष्टुमायुः सुद्शां युवानः ||२२||
}}


९ अत्र यत् यत् इत्यस्य स्थानं या मल्लिका, यश्च लवङ्गवायु, इत्येव पाठ समीचीन प्रतिभाति , परं पाठन्तराऽलाभातयैव मुद्रापितमिति विचिन्तनीयम् ।