पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२६ )


अन्वयः

 युवानः दोलासु पादौ प्रसार्य विहिवस्थितीना लोलांशुकपट्वाना सुदृशा यत् मनोरथानाम् अपि न गुम्यं तत् द्रष्टुम् आपुः।

व्याख्या

 युवनस्तरुणजना दोलासु प्रेटखासु पादौ चरणौ प्रसार्य विस्तार्थं विहिता कृता स्थिति समुपवेशन यानिस्तास्तासमासीनाना लोलाश्चञ्चला स्वनियत- स्यानात्परिच्युता अशुका पल्लव इवेत्यशुकपल्लवा मसृणाम्वराणि यासा तास्तासा सुदृशा सुनयनानामङ्गनाना यत् गुह्य स्थान गोपनीयाङ्ग जघनादि मनोरथानामपि कल्पनानामपि न गम्य न प्राप्य तद्रष्टुमवलोकयितुमायु प्राप्तवन्त । दोलनजनितवायुवेगेन तासा मसृणाम्बरेयु स्थानभ्रष्टेषु सत्सु युवानस्तासा कल्पनायामप्यप्राप्य जघनाविगोपननीयाङ्ग दद्शुरिति भाव ।

भाषा

युवक लोगो न, पाव लम्बा कर झूलो पर बैठी हुई, हवा के झोके स स्थानच्युत मुलायम साडी वाली सुनयनी अङ्गनाओ के, कल्पना में भी न आने वाले जघनादि गोपनीय अङ्गो को देखा ।

उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बजाड्याः ।
दोलाविलासेन जितश्रमत्वात् प्रकपेमापुः पुरुषायितेषु ।।२३।।

अन्वयः

 दूरं उन्नम्य मुहुः आनमन्त्यः श्लथीभूतनितम्बजाड्याः कान्ताः दोला- विलासेन जितश्रमत्वात् पुरुषायितेषु प्रकर्षम् आपुः।

व्याख्या

 दूर विप्रकृष्टदेशमुम्नस्योष्वं समुत्थाय मुहुर्वारम्बारभानमन्त्योऽघोदेश प्राप्नु- वन्त्य पुनरुपविशन्त्य श्लयीसूत शिथिलोभूत निरस्तमित्यर्थं । नितम्बस्य कटिपश्चाङ्भागस्य जाड्य क्रियाशीलत्वशून्यत्व यासा ता कान्ता अङ्गना दोलाया प्रेङ्खाया विलासेन सचालनकीडया जितोवशीकृत श्रम कार्यकरणक्षमत्व याभिस्तास्तासा भावो जितश्रमत्व तस्मात समूपार्जितकठिनकायसम्पादन- शक्तित्वात् पुरुषायितेषु पुरुषकर्तृकज्यापारेषु विपरीतसुरतेषु प्रकर्षमुत्कृप्रकृष्टत्वमापु प्राप्तवत्य ।