पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२९ )


भाषा

 दक्षिण दिशा के केरल देश के वायु ने अर्थात् दक्षिणानिल ने कामिनियों के मुखो को चूमा, साडी को खींचा, कटि पश्चात् भाग में चिर काल तक विश्रान्ति ली। इसलिये अङ्गनाओं का हिंडोले की क्रीडा का वह आचार्य हो गया । अर्थात् हिंडोले की क्रीडा में क्या २ किया जाता है (चुम्बन करना, कपडा हटाना और नितम्बो पर हाथ फेरना) इसका उपदेश दिया । गीतेषु याताः किमु शिष्यभावं वामभ्रुवां विभ्रमदोलिनीनाम् ।

पुंस्कोकिलाः काननचारिणो यच्चातुर्यमापुः कलपञ्चमस्य ॥२७॥

अन्वयः

 काननचारिणः पुंस्कोकिलाः गीतेषु विभ्रमदोलिनीनां वामभ्रुवां शिष्यत्वं याताः किमु , यत् (ते) कलपञ्चमस्य चातुर्यम् आपुः ।

व्याख्या

 कानने वने ‘अटव्यरण्यं विविनं गहनं काननं वनम्' इत्यमरः । चरन्ति विहरतीति ते वनगताः पुंस्कोकिलाः पिकाः ‘वनप्रियः परभृतः कोकिलः पिक इत्यपि' इत्यमरः । गीतेषु गानकलासु विभ्रमेण विलासेन दोलयन्ते दोलासु विहरन्तीति विभ्रमदोलिन्यस्तासां विलासदोलासु विहरन्तीनां वामभ्रुवा चऽचल भ्रुकुटीनां कान्तानां शिष्यत्वं छात्रभावं याताः प्राप्ताः किमु । यद्यस्मात्कारणात्ते पिकाः कलो मधुर पञ्चम पञ्चमस्वर इति तस्य मधुरपञ्चमरवस्य धातुर्यं नैपुण्यमापुः प्राप्ताः । वामभ्रुवां शिष्यभावं विंना पुंस्कोकिलानां पञ्चमस्वरस्यै. तादृशं नैपुण्यं सर्वथैवाऽसंभवेति भावः । उत्प्रेक्षालङ्कारः ।

भाषा

 जल में विहार करने वाले पिक, क्या गान कला में विलास पूर्वक झूला झूलने वाली व डेढी भवो वाली ललनाओं के शिष्य तो नही हो गए, क्यो कि उन्होने मधुर पञ्चम स्वर में बोलने की चतुरता प्राप्त कर ली थी। अर्थात् विना गुरु के विद्या कहाँ ? इससे उन झूला झूलने वाली नारियो से कोकिलो ने पञ्चमस्वर में बोलना सीखा होगा ।