पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४३३ )

व्याख्या

अतिप्रहर्षादनन्दतिशयात् कोकिलाना पिकाना, कूजितानि ध्वन्यस्तेषां विहित कृतोऽनुकरोऽनुकरण यैस्ते लीलाशुका क्रीडाशुका 'कीरशुकौ समौ” इत्यमरः वियोगिनीभिर्विरहिणोभिर्गृहात्स्वसदनादषाव्यन्त बहिर्निष्कास्यन्ते स्म । कोकिलकूजितस्य बिरहे दुखप्रदायित्वेनाऽसह्यवाप्तदनुकारिणा लीलf• शुकाना गृहादपसारण ताभि कृतमिति भावः । हि यत गुणित गुणवता गुण स्वरमाधुर्यविरूप काले समुचिते समुय एव गुणाय प्रहर्षाय भवति नत्वयेति शेषे । कीराणां कोकिलशब्दानुकरण गुण परञ्च विरहावस्थाया स दोष एव जात इति भाव' । अत्राऽर्थान्यासालङ्कारः ।

भाषा

अत्यन्त हर्ष से कोयल के शब्द का अनुकरण करने वाले पालतू सुग्गे, वियोगिनियों द्वारा दौडा कर बाहर कर दिये गए । क्योंकि गुणियो का गुण अबसर पर ही गुणाघायक होता है । अर्थात सुग्गो का, कोयल को बोली बोलना यह एक गुण हैं किन्तु पतिविरहजन्य दुख की अवस्था में वह गुण अवगुण सा हो जाता है ।

श्रुत्वेव बृत्तावसरं तुषारं बहिस्थितानामलिनां निनादैः।
द्विवर्षकन्यामुखकोमलाभं पङ्कोदरात्पङ्कजमाविरासीत् ॥३३॥

अन्वयः

द्विवर्षकन्यामुखकोमलाभं पङ्कं, वहिः स्थितानाम् अलिना निनादैः तुपार वृत्तावसरं श्रुत्वा इव पङ्कोदरात् आविरासीत् ॥३३॥

व्याख्या

द्वौ वर्षौ यस्या सा द्विवर्षा,द्विवर्षा चासौ कन्या च द्विवर्षकन्या तस्या मुखस्येब कोमला सुकुमाराभा कातिर्यस्य तत् स्यू प्रभा रुचिस्विडभाऽ- मरश्छविद्युतिदीप्तय' इस्यमर'पङ्कज कमल बहिस्थितानां बाह्यस्थान धनिनमलीनां भ्रमराणां निनादै-झङ्कारैस्तुषार हिम तुषारस्तुहिनं हिमम् इत्यमरः वृत्ती निर्गतोऽवसर कालो हेमन्तशिशिरर्तुं यस्य स ते श्रुत्वैषा कर्ण्येव पङ्कोदरात्सरस पङ्कमुदरे यस्येति विग्रहात पङ्कस्य कङमयोबर मध्य तस्माद्वा कर्दमान्तरादाधिरासीत्प्रकटीबभूव। हिमसमये पङ्कजानि न समुत्पद्यन्ते भ्रमराश्च न गुञ्जन्ति तस्माद्भ्रमरशब्दश्रवणद्विमगमनमनुमाय वसन्तगम- नात्कोमल कमल प्रादुर्बभूवेति भाव । अत्रोत्प्रेक्षालङ्कारः । २८