पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४३४ )

भाषा

 दो वर्ष की कन्या के मुख के समान कोमल कान्ति वाला, कमल, बाहर रहने वाले भ्रमरो की गुञ्जार से ‘मानो हेमन्त और शिशिर ऋतुओ के बीत जाने की सूचना पाकर तालाब से प्रकट हुआ । अर्थात् हेमन्त और शिशिर ऋतुओ मे कमल नही उत्पन्न होते और भ्रमर भी गुन्जार नहीं करते ।

नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन ।
उत्सङ्गसङ्गी विपिनस्थलीनां वालो वसन्तः किमपि व्यराजत् ॥३४॥

अन्वयः

विपिनस्थलीनाम् उत्सङ्गी वसन्तः बालः नवीनदन्तोद्गमसुन्दरेण चासन्तिकाकुड्मलनिगमेन किमपि व्यराजत् ।

व्याख्या

विपिनस्थलीनामरण्यभूमीनां ‘अटव्यरण्यं वपिनं गहनं काननं वनम् इत्यमरः । विपिनस्थल्याः स्त्रीत्वेन जननीत्वं व्यङ्गयम् । उत्सङ्गेड्के मध्ये वा सङ्गत इत्युत्सङ्गसङ्गी 'उसङ्गचिह्नयोरङ्कः इत्यमरः । अङ्गवर्ती वसन्तो बालः कुमारो नवीनः प्रत्ययो दन्तोद्गमो दशनोत्पत्तिस्तद्वसुन्दरो मनोहरस्तेन वाप्तन्तिका माधवीलता । ‘वासन्ती माधवीलता' इत्यमरः । तस्याः कुड्मलानि कलिकास्तासा निर्गम उत्पत्तिस्तेन किमप्यनिर्वचनीयं यथा स्यात्तथा व्यराजत् शुशुभे । वसन्ते बालरवारोपाद्वासन्तीकलिकासु दशनत्वारोपात्, बिपिनस्थलीनां धात्रीत्वारोपस्य व्यङ्ग्यत्वाच्च एकदेशयिर्यातरूपकम् ।

भाषा

जगल को भूमियो की गोद में रहने वाला वसन्त रूपी बालक, नये दात निकलने के समान सुन्दर माधवीलता की कलियो के निकलने से एक अवर्णनीय शोभा को प्राप्त हुआ ।

सुगन्धिनिःश्वासमिवानुवेलभुद्वेल्लता दक्षिणमारुतेन ।
मुखं प्रसूनस्मितदन्तुरं तच्चुचुम्ब मुग्धस्य मधोवनश्रीः ।।३।