पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६ )

व्याख्या

मम सूक्तय कविता एव रत्नानि मत्सूक्तिरत्नान्युल्लेखस्य कवितालेखनस्य वैकटिक पक्षे रत्नोत्कर्षणस्य या लीला वैशिष्ट्य तस्या घटनाया सम्पादने पटूना चतुराणा वैकटिकानामुपमा सादृश्य येषु तेषा रत्नपरीक्षकतुल्याना सचेतसा। सहृदयाना महकवीना विचार एव शाणोपला रत्नशुद्धिपरिचायकृपाषाण विशेषा "शाणस्तु निकष कप" इत्यमरः । तेषां पट्टिकास्वतिथीभवन्तु । अतिथि- रूपेणैकत्रभवन्तु । शाणोपलपट्टिकासूल्लिखनेन रत्नकान्तिपरीक्षणदक्षाणा वैकटिकानामिवोत्तम काव्यकरणे विचारणे च कुशलाना महाकवीना विचरार्य. मस्मत्काव्य भवत्विति भाव। वैकटिकेन सहृदयस्य सादृश्यप्रतीत्योपमा । विचारेषु शाणोपलपट्टिकारोपाद्रूषकञ्च।

भाषा

 सान पर चढकर रत्न की परीक्षा करने में कुशल जोहरी लोगो के समानउत्तम काव्य वनान में कुशल सहृदय काव्यज्ञो की विचार रूपी सान पर परीक्षार्थ मेरे श्लोक या काव्य उपस्थित हो । अर्थात मेरे काव्य की उच्चकोटि के सहृदय कविलोग परीक्षा कर देखें कि मेरा काव्य कैसा है ।

न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः।
द्वेष्यैव केषामपि चन्द्रखण्डत्रिपाण्डुरा पुण्ड्रकशर्कराऽपि ॥२०॥

अन्वयः

 दुर्जनानाम् इह कः अपि दोषः न । हि तेषा स्वभावः गुणासहिष्णुः । येषाम् अपि 'चन्द्रखण्डविपाण्डुरा पुण्ड्रकशर्करा द्वेष्या एव ।

व्याख्या

 दुर्जनानां खलानामिहाऽस्मिन्परेषा निन्दाकरणे कोऽपि दोषो नास्ति । हि यस्मात्कारणात्तेषा खलाना स्वभाव प्रकृतिरेव गुणानां सद्गुणानामसहिष्णुरसहन शीलो मात्सर्यंयुक्त इत्यर्थ । केषामपि केषाञ्चिज्जनानां चन्द्रखण्ड. इव कर्पूर खण्ड इव विपाण्डुरा शुभ्रा पुण्ड्रकाणा महदिक्षुणा शर्करा दिक्षुनिर्मितशर्करा प्रकृत्यैव सुमधुराडपि द्वाष्यैवाऽरूचिकारिण्येव भवति । पित्तेन दूते रसने सितापि तिक्तायते हंसकुलावतस ।' इति श्रीहर्ष । अत्र दृष्टान्तालङ्कारः ।