पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४५० )

भाषा

बिना रोक टोक ऊपर की ओर फैलनेवाली, अङ्गनाओं किए द्वारा साफ किये हुए दांतो की कान्ति से मानो धोए हुए अर्थात् साफ किए हुए चन्द्रमा के किरण, धीरे धीरे अपूर्व स्वच्छसा अर्थात् धवलता को प्राप्त हुए ।

अथ विरहिणीविलापं वर्णयति कवि :-

त्वं चैत्र मित्रं यदि मन्मथस्य तस्मिन्नङगे कथमक्षताङ्गः ।
ज्ञातं तवान्तमागतोऽसि मिषेण नाशाय वियोगिनीनाम् ।५६।

अन्वयः

हे चैत्र यदि त्वं मन्मथस्य मित्रं (तर्हि) तस्मिन् अनङ्गे(सति) त्वं कथम् अक्षताङ्गः । तव अन्तर्गतं (मया) ज्ञातम् । त्वं मिषेण वियोगिनीनां नाशाय आगतः असि ।

व्याख्या

 हे चैत्र ! हे वसन्त ! यदि त्व मन्मथस्य कामस्य मित्र सुहृत्तर्हि तस्मिन्का मेऽनङ्गेङ्गहीने सति इव कथमक्षतान्यङ्गानि यस्य स अभग्नावयवोडविकलश- रीर असीत्यर्थं । तव वसन्तत्याऽन्तर्गत मानसगतो भावो मया विरहिण्या ज्ञात बुद्धम् । त्व मिषेण व्याजेन वियोगिनीना विरहिणीना नाशाय विध्वसनायाडड- गतस्समायातोsति । कामस्याऽनङ्गत्वे जातेऽपि स्वमधुना पुष्पविकासादिव्याजेन तदीयं वियोगिनीनाशरूप कार्यं सम्पादयतीति भाव ।

भाषा

हे वसन्त यदि तुम कामदेव के मित्र हो तो कामदेव के शरीर रहित होने पर तुम कैसे अविकल शरीर वाले हो अर्थात् तुम कैसे बिना आघात रह गये । तुम्हारे हादिक भाव को मैने समझ लिया । तु बहाने से वियोगिनिओ का नाश कर डालने के लिये आए हो । अर्थात् काभदेव के काम में तुम, फूल को पैदा कर बहाने से सहायता कर ही रहे हो ।


नूनं महापातकिनं वितर्क्य वियोगिवर्ग्यक्षयदीक्षितम् त्वाम् ।
पस्पर्श न त्र्यम्बकनेत्रवह्निः पापैरखएङैः प्रियखण्डितानाम् ॥५७