पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४५५ )


सौत के दात से काटने के चिन्ह-इन दोषो को भी, मान रहित स्त्रियो में गुण ही समझा । युवा कामियो में, इन दोषो को देख कर पत्नियाँ क्रुद्ध हो जाती है । परन्तु वसन्त-ऋतु के प्रभाव से जिनका मान ही दूर हो गया है अतएव कामासक्त भई हुई स्त्रियो ने इन दोषो को भी गुण ही समझा ।

बन्दिकृतं वसन्तवर्णनमारभते कविः --

मानग्रन्थिकदर्थनाय कथिताः सर्वत्र पुंस्कोकिलाः
केलिकर्मणि दाक्षिणात्यमरुतामध्यक्षभावोऽर्पितः।
पुष्पास्त्रस्य जगत्रयेऽपि विरहप्रत्यूहहेवाकिनः
संनद्धोऽयमसाध्यसाधनविधौ साम्राज्यमन्त्री मधुः ॥६३॥

अन्वयः

 सर्वत्र मानग्रन्थिकदर्थनाय पुंस्कोकिलाः कथिताः । केलीकर्मणिदाक्षिणात्यमरुताम् अध्यक्षभावः अर्पितः। जगत्त्रये अपि विरहप्रत्यूह हेवाकिनः पुष्पास्त्रस्य साम्राज्यमन्त्री अयं मधु असाध्यसाधनविधौ संनद्धः । (अस्ति) ।

व्याख्या

 (वसन्तेन) सर्वत्र सर्वस्थानेषु मानः कोप एव ग्रन्थिस्तस्य कदर्थनाय भञ्जनाय विनाशायेत्यर्थः। पुंस्कोकिलाः पिकाः कथिता आज्ञप्ताः । केलीकर्मणि काम- क्रीडाविलासे रत्यादिष्वित्यर्थः । दाक्षिणात्यमरुतां मलयपयनानामध्यक्षभाव आधिपत्यमर्पितो दत्त । जगतां भुवनानां 'विष्टपं भवनं जगत् ' इत्यमरः । त्रयं तस्मिन् त्रिलोक्यामपि विरहे वियोगसमये प्रत्यूहा विघ्नाः विध्नोऽन्तरायः प्रत्यूहः' इत्यमरः । क्लेशोत्पादका उपद्रवा इत्यर्थः । तेषां हेवाक' उत्कटेच्छा- स्त्यस्यैति तस्य प्रियविरहसमये पीडोत्पादनकामस्य पुष्पास्त्रस्य कामस्य साम्राज्यस्य सार्वभौमराज्यस्य मन्त्री पासचीवः ‘मन्त्री श्रीसचिवोऽमात्यः इत्यमरः । अयं प्रसिद्धो मघुर्वंसन्तोऽप्यानामसंभवानां विरहिदुःखानां साधनमुत्पादनं तस्य

१ हेवाबशरदः कश्मीरकविभिः महबिटादिभिरेय प्राय प्रपुन् । 'जायने महामहो निरुपमश्ररयानहंयाग्नि चgनः नि सामान्यमहायोगशुिना वार्ता वित्ताप' नि ।