पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६३

पुटमेतत् सुपुष्टितम्

( ४५९ )

युक्तवायुना दक्षिणानिलेन खिन्ना दुःखिता सती मलये मलयपर्वते दवाग्निं वनदाहकाग्निं दावानलमित्यर्थः । आकाङक्षति वाच्छति । येन दावानलेन मलयजचन्दनवृक्षेषु दग्धेषु चन्दनवायोरभावः स्यादिति भावः । किञ्चऽन्यच्च दुर्मना दुःखितहृदया सती कामेन मन्मयेन मघोर्वसन्तस्य मैत्रीं सख्यं दलयितुं विनाशयितुमन्विष्यति प्रेच्छति उपायं मृगयतोति भावः । कां कां वातुलता मुन्मत्ततां ‘वातुलः पुंसि वात्यायामपि वातसहे विपु' इत्यमरः। कर्तुं सम्पादयितुं न धावति न वेगेन प्रवर्तते ।

भाषा

 तुम्हारे न मिलने पर अर्थात् तुम्हारी विरहावस्था में, कामिनी, कूकते वाली कोयलो से क्रुद्ध होकर गुलेला चलाने का अभ्यास प्रारम्भ करती हैं जिससे गोली से कोयलो को मार कर इड़ादे जिसमें उनके शब्दो से विरहावस्था में कष्ट न हो। चन्दन की सुगन्ध युक्त वायु से अर्थात् मलयानिल से खिन्न होकर मलयाचल में दायानल लगने की अभिलाषा करती है । जिसमें सय चन्दन के वृक्ष जल कर भस्म हो जाएँ और विरहावस्था में चन्दन वायुओं से कष्ट न हो, और दुःखित होकर, कामदेव और वसन्त की मित्रता का नारा करने के उपायो को खोलती है । कौन २ सा पागलपने का काम करने में वह शीघ्रता से नही प्रवृत्त होती है ।


सन्नद्ध्ं माधवीनां मधु मधुपवधूकेलिगण्डूपयोग्यं
 विश्राम्यन्ति श्रमेण क्वचिदपि मरुतो न क्षणं दाक्षिणात्याः।
क्रीडाशैलीमवन्ति प्रतिकलमलिनां कौसुमाः पांसुकूटा‌-
 क्षैत्रे पुष्पास्त्रमित्रे तदिह विरहिणां कीदृशी जीविताशा ॥६७॥

अन्वयः

 माधवीनां मधु मधुपवधूकेलिगण्डूपयोग्यं सन्नद्धम् । ,दाक्षिणात्याः मरुतः श्रमेण क्वचिदपि क्षणं न विश्राम्यन्ति । खलिनां कौसुमाः पांसुकूटाः प्रतिकलं क्रीडाशैलीभवन्ति । तत् पुष्पास्त्रमित्रे चैत्रे (सति) इह विरहिणां जीविताशा कीदृशी ।

व्याख्या

 माधवीनां वासन्तीलतानां ‘वासन्ती माधवीलता’ इत्यमरः । मधु पुष्परसो