पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६५

पुटमेतत् सुपुष्टितम्

( ४६४ )

भरितसुराभाण्डभाङ्कारचण्डाः उन्मीलनीलमोचापरिचयशिशिराः द्राविडीनां कर्पूरापाण्डुगण्डस्थललुठितरयाः अमी दाक्षिणात्याः वायवः वान्ति ।

व्याख्या

 नालिकेरोफलानां नारिकेलफलानां कुहरेषु मध्यस्यगह्वरेषु कुहूत्कारि कुहूदिति शब्दकर्तु शब्दायमानमित्यर्थः । पानीयं जलं कल्लोलयन्तस्तरङ्गयन्तः कावेरी नद्यास्तीरे तटे तालद्रुमस्तालवृक्षास्तं भरितानि तालनिस्सृतजलेन ’ताड” इति प्रसिद्धेन परिपूरितानि सुराभाण्डानि मद्यपात्राणि तेषां भाङ्करेण झाङ्करेण शन्देनेत्यर्थः। चण्डाः प्रचण्डाः सुराया मादकत्वादुप्रस्वरा इत्यर्थः । उन्मीलयन्यो विकसन्त्यो नीला नीलवर्णा मोचाः शाल्मलिवृक्षाः कदल्यो वा 'पिच्छिला पूरणो मोचा स्थिरायुः शाल्मलिर्द्वयोः' इत्यमरः। ‘कदली वारणबुसा रंभा भोचांशुमत्फला' इत्यमरः । तासां परिचयेन सम्पर्केण शिशिराः शीता द्राविडीनां चोलदेशाङ्गनानां कर्पूरवदापाण्डूनि घनसारवच्छुभ्राणि ‘अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः । गण्डस्थलानि कपोलस्थलानि तैर्लुठितः संभग्नः रयो वेगो येषां ते अमी स्पर्शगम्या दक्षिणे भवा दाक्षिणात्या वायवो मलयानिला वान्ति चलन्ति । अत्र दाक्षिणात्यवायुषु घावत्पुरुषव्यवहारप्रतीत्या समासोक्ति- रलङ्कारः । स्रग्धराछन्दः ।

भाषा

 नारियलो के बीच के कुहूत् ऐसा शब्द करने वाले जल को तरङ्गित करने वाले, कावेरी नदी के किनारे के ताड के वृक्षो से चूने वाली ताडी से परिपूर्ण (ताडी रखने के) वर्तनो के शब्दो से उग्ररूप धारण करने वाले, फूलने वाली नीले (हरे) रग के सेमर के या केलो के सम्पर्क से ठण्डे, चोलदेश की नारियो के कचूर के ऐसे श्वेत गालो से टकराने से मन्द वेग, ये मलयानिल वह रहे हैं ।

भृङ्गालीभिरधिज्यमन्मथधनुर्लीलां लभन्ते लताः
 किं पुष्पं न विभृतिं पुष्पधनुपस्त्रैलोक्यजैत्रास्रताम् ।
दोलान्दोलनकेलिलोलवनितासंचारितास्रोऽधुना
 पञ्चेषुश्चललक्षभेदविधिना गर्वं समारोहति ॥७२॥

अन्वयः

लताः भृङ्गालीभिः अधिज्यमन्मथधनुर्लीलां लभन्ते । किं पुष्पं पुष्प