पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४७१

पुटमेतत् सुपुष्टितम्

( ४६८ )

अन्वयः

 पौलस्त्योद्यानलीलाविटपितलमिलन्मैथिलीपादमुद्राः कर्पूरद्वीपवेला- चलविपिनतटीपांसुकेलीरसज्ञाः केरलीनां क्रीडाताम्बूलचूर्णग्लपितमुखहृत कान्तयः स्मरसुभटजयाकाङ्क्षिणः दाक्षिणात्याः समीराः आमोदन्ते ।

व्याख्या

 पौलस्त्यस्य रावणस्योद्यानमुपवनमशोकवाटिका तस्य लीलाविटपी फ्रीडावृक्षो- ऽशोकतरुस्तस्य तलेऽघो मीलन्यो विघटन्त्यो चिरकालादस्पष्टीकृता इत्यर्य । मैथिल्या सीताया पादमुद्राश्चरणचिह्नानि यैस्ते, कर्पूरद्वीपस्याऽन्तरीयविशेषस्य वेलाचल समुद्रतटस्थपर्वतस्तस्य विपिनतटी वनतटि तस्याः पासवो धूलयस्तासु केली क्रीडा तस्या रसज्ञा रसिका , केरलीना केरलदेशजकामिनीना क्रीडाभी रत्यादिक्रीडाभिस्ताम्बूलेन चूर्णेन कर्पूरेण च ग्लपितानि खिन्नानि श्रान्तानीत्यर्थः । मूखान्याननानि तेषा हृता दूरीकृता क्लान्तिर्ग्लानता यैस्ते, स्मर एव काम एव सुभटो सुयोद्धा राजा तस्य जयस्य विजयस्याऽऽकाङ्क्षिण इच्छुका दक्षिणे भवा दक्षिणात्या समीरा वापवो दक्षिणानिला इत्यथ । आमोदन्ते आमोद सुगन्ध हर्षं वा ‘आमोद सोऽतिनिर्हारी' इत्यमर । परितो विस्तारयन्ति । स्रग्धराच्छन्दः ।

भाषा

 रावण की बाग में विद्यमान, लीलावृक्ष अशोक के नीचे श्री रीता जी के चरणचिह्नों को अघगिटा करन वाले, कर्पूर द्वाप में समुद्र तट के पर्वत के प्रान्तभाग में विद्यमान जगल की धूलि में खलवाड करने के रसिक, केरलदेश की अङ्गनाओ के रत्यादिक्रीड़ाओ में पात और कपूर के खाने से थान्त अत एव खिन्न मुखो की ग्लानि को दूर करने वाले और वीर राजा कामदेव का विजय प्राप्त होने की अभिलाषा रखने वाले दक्षिणानिल, चारो ओर सुगन्ध या हर्ष फैला रहे हैं ।

यश्रूताङ्कुरकन्दलीकवलनात्कर्णामृतग्रामणी
 श्छायामात्रपरिग्रहेऽपि जगृहे पञ्चेपुजैत्रेपुताम् ।
ताम्यत्तालुविटङ्कमंकटतटीसञ्चारतः पञ्चमः
 सोऽयं कोकिलकामिनीगलविलादामूलमुन्मूलति ||७६॥