पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४७३

पुटमेतत् सुपुष्टितम्

॥ श्री गणेशाय नम ॥

॥ श्री सङ्कष्टनाशिन्यै नम ॥

परिशिष्टम्

क.

 विक्रमाङ्कदेवचरितमहाकाव्यस्य सप्तसर्गान्तर्गताः

सूक्तयः ।

प्रथमसर्गे ---

श्लोकाः
 

अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः।
वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभृः पदानाम् ॥ ६ ॥

साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः ।
यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥११॥

गृह्णन्तु सर्वे यदि वा यथैष्टं नास्ति क्षतिः कापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुप्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥१२॥

कुण्ठत्वमायाति गुणः कवीनां साहित्यविधाश्रमवर्जितेषु ।
कुर्यादनाद्रेषु किमङ्गनानां केशेषु कृष्णागरुधूपवासः ॥१४॥

व्युत्पत्तिरावजितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् ।
न मौक्तिकच्छिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥१६॥

कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति फथान्तरेषु ।
न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥१७॥