पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २४ )

अच्छे काव्य सुनकर उनसे आनन्द न मिलकर केवल उनमें दोष निकालना ही प्रिय मालूम होता है ।

एषास्तु चालुक्यनरेन्द्रवंश-समुद्गतानां गुणमौक्तिकानाम् ।
मद्भारती-सूत्रनिवेशितानामेकावली कण्ठविभूषणं वः ॥३०॥

अन्वयः

 एषा चालुक्यनरेन्द्रवंशसमुद्गतानां मद्गरतीसूत्रनिवेशितानां गुणमौक्तिं कानाम् एकावली वः कण्ठविभूषणम् अस्तु।

व्याख्या

 एषा वक्यवली चालुक्यनरेन्द्राणां वंशः कूलमेव वंशो वेणुस्तस्मात्समुद्गतानां समुत्पन्नानां, वेणौ मुक्तास्समुद्भवति बहुमूल्याश्च भवन्तीति प्रसिद्धिः । मुद्भारती मदीयवाण्येव सूत्रं गुणस्तस्मिन्निवेशितानां गुम्फितांनां, गुणा दमादक्षिण्यादय एव मौक्तिकानि तेषामेकाबल्येकावृतो हारो वो युष्माक कण्ठविभूषणमस्तु । राज्ञां गुणः कण्ठेनोर्चायंमणसन्तः कण्ठविभूषणानि मौक्तिकानिकण्ठे घायंमाणानि कण्ठविभूषणानीिति भावः । अत्र गुणेषु भक्तिकारोपे, वंशे वेणुत्वारोपस्य कारणत्वारपरम्परितं रूपकम् । वाक्यावल्यामेकाबल्यारोपे भारत्यां सूत्रत्वारोपस्य कारणत्वाच्च परम्परितं रूपकम् । ‘निपता रोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा' इति ।

भाषा

 चालुक्य राजाओ के वश रूप बास में से उत्पन्न यह दया दाक्षिण्यादि गुण रूपी मोतियो वा, मेरो वाणी रूपी डोरे में परोया हुआ, वाक्यावली रूपी एकलडा हार, आप लोगो के कण्ठ का आभूषण हो। अर्थात् चालुक्य वशीय राजाओ के दयादाक्षिण्यादिगुणी की मेरी बाणी में वर्णित वाक्यावली आप लोगो के कण्ठ से उच्चरित होकर उसे सुशोभित करे जिस प्रकार बास की मोतियो का डोरे में परोया हुआ एक्लडा हार कण्ठ को सुशोभित करता है ।

साम्प्रतं चालुक्यवंशमूलपुरुषोत्पत्तिं प्रस्तौति --

लोकेषु सप्तस्यापि विश्रुतोऽसौ सरस्वतीविभ्रमभूः स्वयम्भूः ।
चत्वारि काव्यानि चतुर्मुखस्य यस्य प्रसिद्धाः श्रुतयश्चतस्रः ॥३१॥