पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २७ )

व्याख्या

(प्रत्यूषे) निजवल्लभायाः स्वप्रियायाश्चाटुषु चाटुकरणेषु प्रेमालापादिव्यवहारेषु समुत्सुकः समुत्कण्ठितश्चक्रवाक: कोक: कोकश्चक्रवाको रथाङ्गाह्वय: नामकः, इत्यमरः । अन्योन्यस्य परस्परस्य यद्विश्लेषणं वियोगस्तस्य यन्त्रसूत्रं तद्धटकयन्त्रस्य सूत्र तस्य भ्रान्त्या भ्रमेण इव परस्पररात्रिवियोगकारकयन्त्र सूत्रभ्रमादिव चञ्चुस्थितं स्वप्रियायास्त्रोटिस्थित ‘ चञ्चुस्त्रोटिरुभे स्त्रियौ ' इत्यमरः । मृणालसूत्र विसतन्तुमाचकर्षाऽऽकृष्टवान् । रात्रौ चक्रवाकमियुतस्य वियोगो जायत इति कविप्रसिद्धिः । प्रत्यूषे वाते चक्रवाकस्य स्वप्रियया सह संयोगो जातः । स्वप्रियाचञ्चुस्थितं वार्तालापबाधक मृणालतन्तु निरीक्ष्यैतदेवाऽस्मद्राधिवियोगकारणमिति ध्रमावत: परमपि सूत्रेणाऽनेन वियोगो न कृतः स्यादिति धिया तदाचकर्षेतिभावः। चक्रवाककर्त कचञ्चुस्थितमृणाल सूत्राकर्षणे मृणालसूत्रेऽन्योन्यविश्लेषणयन्त्रसूत्रस्य भ्रान्तेर्हेतुत्त्वेन सम्भावनाप्रति पाटुनादुत्प्रेक्षालङ्कारः ।

भाषा

 (प्रात: काल हो जाने पर, रातभर के वियोग के अनन्तर सयोग होने से) अपनी स्त्री चकई से उत्सुकता से रस भरी मीठी मोठी बातें कहने और सुनने की अभिलाषा से, चकई की चोच में विद्यमान कमल के डण्डे के डोरे को मानो परस्पर वियोग कराने वाले किसी यन्त्र विशेष का यह सूत्र है ऐसे भ्रम से, चकवे ने खींच लिया । (चकवा चकई का रातभर वियोग रहता है ऐसी कविप्रसिद्धि है।)

आरक्तमर्घ्यार्पणतत्पराणां सिद्धाङ्गनानामिव कुङ्कुमेन ।
विम्बं दधे बिम्बफलप्रतिष्ठां राजीविनीजीवितवल्लभस्य ॥३५॥

अन्वयः

 अर्घ्यार्पणतत्पराणां सिद्धाङ्गनानां कुङ्कुमेन इव आरक्तं राजीविनीजीवितवल्लभस्य बिम्बं बिम्बफलप्रतिष्ठां दधे ।

व्याख्या

 अर्घ्यस्य पूजोपचारमिश्रितवल्लभस्य 'षट् तु त्रिष्वर्घ्यार्थे पाद्य पादाय वारिणि' इत्यादिरमरः । अपर्णे प्रदाने तत्पराणां लग्नानां सिद्धाङ्गनानां देवयो‌-