पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २५ )

 निविशेषवनितानां कु्द्धकुमेनेवाऽग्निशिखेनेव कु्द्धकुमनिश्रितजलस्पार्घ्यस्य रक्ततकान्त्येवाऽऽरक्तमासमन्ताद्रक्तवर्णं राजीविन्याः कमलिन्या जीवितं जीवनं तस्य वल्लभः स्वामी तस्य सूर्यस्य बिम्बं मण्डले ‘बिम्बोऽस्त्री मण्डलं त्रिषु’इत्यमर: । बिम्बफलस्य कुन्द्रू इति लोके प्रसिद्धस्य रक्तवर्णशाकफलस्य प्रतिष्ठां सवर्णत्वात्सारूप्यं वधे बधार । कुद्धमर्सुयुक्ताम्बुरूपार्घ्यैस्य सूर्यबिम्बेप्राप्याऽर्घ्यंस्य रक्तत्वात्सूर्य-बिम्बस्या$पि रक्तत्यं जातमिति भावः । प्रातःकालिकसूर्यबिम्बस्य बिम्बफलस्य च सादृश्यदर्शनादुपमा

भाषा

 अर्घ्य देने में तत्पर सिद्धाङ्गनाओ के अर्घ्य के केसर से मानो लाल भया हुआ कमलिनी के जीवन के स्वामी सूर्य का मण्डल (पके'हुए) कुन्दु के समान लाल दिखाई देने लगा |

सुधाकरं वार्धकतः क्षपायाः संप्रेक्ष्य मूर्द्धानमिवानमन्तम्।
तद्विप्लवायेव सरोजिनीनां सिमतोन्मुखं पङ्कजवक्त्रमासीत् ।३६।

अन्वयः

 क्षपाया: वार्धकत: आनमन्तं मूर्धनम् इव सुधाकरं संप्रेक्ष्य सरोजिनीनां पङ्कजवक्त्रं तद्विप्लवाय इव स्मितोन्मुखम् आसीत् ।

व्याख्या

 क्षपाया रजन्या वृद्धस्य भावो वार्ध्दकं तस्माद्वार्धकतो रजन्या गतप्रायत्वाद्व्वृद्धावस्यात आनमन्तमधोगच्छन्तं (अस्तोन्मुखत्वात् ) मूर्ध्दानमिव शिर इव सुधाकरं चन्द्रं सम्प्रेक्ष्य दृष्ट्वा सरोजिनीनां कमलिनीनां पङ्कजमेव वक्त्रं मुखं, तस्य चन्द्रस्य सरोजिनीरिंपुत्वात् तस्याः क्षपायाश्च रिपुस्त्रीत्वात् विप्लवायैव विडम्बनाया इव स्मितोन्मुखमीपद्धास्ययुक्त विकासयुक्तं वाऽऽसीद्रभूव । यथा काचिन्नायिका स्वरिपु भस्तोमुखं स्वरिपुस्त्रियश्च वृद्धावस्याप्रयुक्तां नमदाननत्वादिदुरवस्थां वीक्ष्य सुखमनुभवन्ती तद्विडम्बनाय स्मेरानना भवति तथैवेषा कमलिनी गतप्रायां रात्रिं अस्त्तोन्मुखं चन्द्रश्च वीक्ष्य विकसिताभूदिति भावः। कमलिनी रात्रो न विकसतीति प्रसिद्धम् । अत्र प्रस्तुत-व्यवहारस्य कमलिनीव्यवहारे समारोपात्समासोक्त्यलङ्कार: । चन्द्रे च वार्धक्यप्रयुक्तनम्रीभूतरात्रिरूपनायिकाशीर्षोस्योत्प्रेक्षणाद्वस्तूत्प्रेक्षा । पङ्कजे वपनत्वाभेदाद्रूपकम् । अत उत्प्रेक्षारूपकमूला समासोक्तिः। इति त्रयाणामङ्गाङ्गीभावसङ्कर: ।