पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३० )

प्रतापी सूर्य ने उदयाचल रूपी अभेद्य किले का आश्रय लिया । अर्थात् सूर्य पूर्वाचल पर उदित हुआ ।

जगाम याङ्गेषु रथाङ्गनाम्नां परस्परादर्शनलेपनत्वम् ।
सा चन्द्रिका चन्दनपङ्ककान्तिः शीतांशुशाणाफलकं ममञ्ज ॥३८॥

अन्वयः

 या रथाङ्गनानाम्नाम् अङ्गेषु परस्परादर्शनलेपनत्वं जगाम सा ‘चन्दनपङ्क कान्तिः ‘चन्द्रिका शीताशुशाणाफलके ममञ्ज ।

व्याख्या

 या रथस्याऽङ्ग चक्र नाम येषा तेषा रथाङ्गनाम्ना चक्रवाकपक्षिणामङ्गेष्वयवेषु परस्परस्याऽन्योन्यस्य यद्दर्शन तदेव लेपन तस्य भावस्तत्वमन्योन्यादर्शनप्रयोज कलेपनद्रव्यत्व जगाम प्राप्तवती, रात्रौ चन्द्रिकया निखिललोके नितान्त यवलितेऽपि चक्रवाकयुगलस्याऽन्योन्यदर्शन न सम्भवतीति कविलोकप्रसिद्धम् । तत्रोत्प्रेक्ष्यते तेषां पक्षिणामङ्गेषु चन्द्रिकारूपविलेपनद्रव्यविशेषेण लेपस्प जायमानत्वाद्विविवतत्वेनऽङ्गानामविभावनम् । सा चन्दनपङ्कस्य कान्तिरिव कान्तिर्यस्या सा चन्द्रिका (प्रात कालसमये) शीताशुश्चन्द्र शाणाफलकमित्युपमितसमास, चन्दनघर्षणोपलमिव तस्मिन् समज्ज तिरोहिता बभूव । जाते प्रत्यूषे इन्द्रस्य निष्प्रभत्वात्तस्य शरीरे चन्द्रिका समाविष्टा सती नाऽन्यत्र परिदृश्यते । चन्दनस्य यथा शाणोपरि घर्षणेन चन्दनाऽभावेऽपि तत्कान्ति शाणोपरि दृश्यते तथैव साम्प्रत चद्रिकाया सर्वत्राऽभव सजात किन्तु तत्स्वरूप शाणफलकसदृशवर्तुलाकार चन्द्रोपरि केवल परिदृश्यते । अत इद ज्ञायते यच्चन्द्रिकाऽस्मिन्सुघाशावेव प्रविष्टा सती। निमग्ना जाताऽदृश्यत्व गतेत्यर्थं । चन्द्रिकायाश्चन्दनपङ्केन सह सादृश्यादुपमा ।

भाषा

 सत को चकवा और चकई का वियोग होता है और वे परस्पर देख नही सकते ऐसी कविप्रसिद्धि है। अत" कवि कल्पना करते है कि चकवा और चकई के अन्द्र को अदृश्य कर देने वाले लेप से समान एक दूसरे को परस्पर देखने में बाधक, चन्दन के द्रव के समान शोभाचारी चादनी, चन्दन घिसने के गोल होरसा के सदृश चन्द्र में प्रविष्ट हो गई अर्थात् प्रात काल में चाँदनी अन्यत्र कही न दिखाई